________________
श्रीप्रवपनपरीक्षा श्विश्रामे ॥१५॥
MIRIRANILIAR
तिलकाचार्यखंडनं
FDS
P
यद्यपि किश्चिदारंभो द्रव्यतो दृश्यते तथाऽपि शुभाध्यवसायान्महती निर्जरा महांश्च पुण्यप्रकृतिवन्धो भवति, यस्तु द्रव्यतः किश्चिदारम्भजन्योऽल्पीयानशुभवन्धः स चाल्पतरत्वाम्यक्त्या तज्जन्यफलानुदयात् तत्कर्मवर्गणानामतिरूक्षत्वेन तत्क्षणादेव विलयाच्च न विवक्ष्यते, अत एव किञ्चित्सारम्भोऽपि जिनपूजालक्षणो द्रव्यस्तवो जिनैः श्रावकाणामनुज्ञातः, यदागमः-"अकसिणपवत्तगाणं विरयाविरयाण एस खलु जुत्तो। संसारपयणुकरणे दवयए कूवदिटुंतो॥१॥"त्ति श्रीआव०नि० (आ०भा० १९६) ननु तर्हि द्रव्यस्तवे कूपदृष्टान्तो न युक्तः,तत्र कूपखननानन्तरमेव जलनिर्गमे मलापगमः,अत्र पूजां कुर्वत एवारम्भसंभवमालिन्यापगम इति | चेत ,मैवं,कूपखननजनितं मालिन्यं कूपजलेनैवापनीयते इत्येवंरूपेण देशत एव दृष्टान्तात् ,नहि दृष्टान्तदाान्तिकयोः सर्वधर्मसाधर्म्य | केनापि दृष्टं श्रुतं वा,तथा जगद्वयवहाराभावाद्, अन्यथा द्वयोरेकत्वापच्या उपमानोपमेययोरेव हान्यापत्तेः,तस्माच्छावकधर्मःसा| वद्य इति निष्ठुरवचनं न वक्तव्यं, किंतु सारम्भः श्रावकधर्म इति वक्तव्यं,निरारम्भश्च श्रवणधर्म इति, अत एवागमे "दुविहे धम्मे |पण्णत्ते, तं०-अगारधम्मे अणगारधम्मे"त्ति,न पुनः 'सावजधम्मे निरवजधम्मे'त्ति पाठः, यत्तु क्वचिद्रव्यस्तवे सावद्यत्वव्यपदेशःस द्रव्यतः किश्चिदारम्भजन्यरूक्षाल्परजःस्पर्शलक्षणमालिन्यनिर्देशपरो, न तु नरकादिगतिभोग्यपातकनिर्देशपरोऽपि, ननु त्रिविधत्रिविधप्रत्याख्यानवतां साधूनां सारम्भो द्रव्यस्तवः कथमनुमोदनीयः,तद्गतारम्भस्याप्यनुमोदनापत्तेरितिचेत् , मैवं, सामायिकादिश्रावकधर्ममात्रस्याप्यननुमोदनीयत्वापत्तेः, कृतसामायिकादीनामप्युद्दिष्टभोजित्वेनारम्भकलुषितत्वात् , तस्मात्साधूनां तद्गतारम्भो नानुमोदनाविषयः, किंतु तजन्यः श्रावकधर्म एवेतिगाथार्थः ॥३५॥ अथ कुसुमादिपूजायाः वस्तुगत्या सावद्यत्वाभावेन साधुक-| |र्तव्यतया कथं नानुज्ञेति पराशङ्कामुद्भाव्य तिरस्कुर्वन्नाह
ATRALIABIMIRALLUMIHIPARLIAMITRAMES
| ॥१५३४