________________
श्रीप्रवनपरीक्षा ३ विश्रामे
॥ १५२ ।।
तिलककल्पः, इदं विवादापनं प्रतिष्ठाकृत्यं सावद्यत्वेन हेतुना श्रावककृत्यं, प्रयोगस्त्वेवम् प्रतिष्ठा श्राषक कृत्यं सावद्यत्वाखिनपू| जावदिति साधयन् आत्मनो वा एवार्थः, आत्मन एव मूढचक्रित्वं-मूढचक्रवर्तित्वं, एवाध्याहार्यः, मूर्खचक्रवर्त्तित्वमेव साधयतीतिगाथार्थः ||३३|| अथ तिलकस्य मूर्खचक्रित्वमेव दर्शयितुमतिप्रसङ्गमाह
जं जं सावज्जं तं जड़ सड्ढेणं हविज्ज कायवं । ता मुणिघायप्पमुहा महासवा तस्स जिणआणा ||३४|| सावद्यत्वेन हेतुना श्रावककृत्यत्वे साध्यमाने, व्याप्तिग्रहस्त्वेवं प्रतिष्ठा श्रावकेणैव कर्त्तव्या, सावद्यत्वाद्, यद्यत् सावद्यं तद्यदि श्रावकेणैव कर्त्तव्यं भवेत् 'ता' तर्हि मुनिघातप्रमुखा महाश्रवाः - सावद्याः श्रावकस्यैव जिनाज्ञा भवेत्, यतो मुनिघातोत्सूत्रप्ररूपण| देवद्रव्यापहारसंयत्यब्रह्मसेवाप्रवचनोड्डाहादयो महाश्रवाः, इतराश्रवापेक्षया महापापहेतुत्वाद्, यदागमः - "बेइ अदव विणासे इसि - घाए पवयणस्स उड्डाहे । संजइचउत्थभंगे मूलग्गी बोहिलाभस्स ॥१॥ त्ति (उपदेशपद. ४१५) तेषु सावद्यत्वस्य हेतोः सच्चात्, श्रावणैवेत्येवकारेण नियमाच्छ्रावककर्त्तव्यतापत्तौ जिनाज्ञा भवेत्, तथा च तव मतेऽनार्यकर्त्तव्यताया दत्ताञ्जलितैव, अथ महाश्रवाः श्रावककृत्यं न भवतीतिचेत्तर्हि तत्र हेतोः सच्त्वात्साध्याभावाच्च व्यभिचारातिसाररोगग्रस्तो हेतुरपवित्र इति गाथार्थः ॥ ३४ ॥ अथ कुसुमादिजिनपूजा दृष्टान्ततया तेनोपन्यस्ता, तत्र सावद्यत्वादिति हेतुर्नास्तीतिप्रदर्शनाय प्रथमं जिनपूजाया अभिलापः कीदृशः कर्त्तव्य इत्याह
तत्तविआरे पूआ सावज्जत्ति अ निडुरं वयणं । सारंभो गिहिधम्मोऽणारंभो समणधम्मो अ ॥ ३५ ॥ तस्वविचारे - वस्तुगत्या विचारे कुसुमादिजिनपूजायां सावद्यतया निर्वचनं तन्निष्ठुरं वचनम्, अनुचितभाषणमित्यर्थः, यतो
तिलकाचार्यखंडनं
॥१५२॥