________________
द्रव्यस्तवभावस्तवी
श्रीप्रवचनपरीक्षा विश्रामे ॥१५॥
जिनाज्ञामाह-प्रतिष्ठितानां प्रतिमानां पूजनमितिबुख्या-अहं जिनेन्द्रं पूजयामीतिधिया पूजा भवति,न पुनरप्रतिष्ठितानां प्रतिमानामपि, प्रतिष्ठाया वैयापत्तेः तादृशी च पूजा वीरेण-श्रीवीरजिनेन्द्रेण लिङ्गिना-साधुलिङ्गधारिणां निषिद्धा, कुत्र-श्रीमहानिशीथे, तथाहि-"से भयवं! जे णं केइ साहू वा साहुणी वा निग्गंथे अणगारे दवत्थयं कुज्जा से णं किमालविजा?, गोअमा ! जे णं केइ साहू वा जाव दवत्थयं कुजा से णं अजएइ वा असंजएइ वा देवभोएइ वा देवच्चगेइ वा जाव णं उम्मग्गपइट्ठिएइ वा दुरुज्झिअसीलेइ वा कुसीलेइ वा सच्छंदायरिएइ वा आलविजा" (सू. ३८) इतिश्रीमहानिशीथे पश्चमाध्ययने, ननु पूर्वमौपचारिकविनयरूपो द्रव्यस्तवः साधूनामप्युक्तः, इदानीं च श्रीमहानिशीथोक्तसम्मत्या सर्वथा द्रव्यस्तवो निषिद्धः, तथा च कथमन्योऽन्यं संगतिरिति चेत् सत्यं, श्रीमहानिशीथोक्तोत्सर्गवचनस्यापवादिकविशेषवचनादन्यविषयकत्वान्न दोषः, तेन स्नानादिपूर्वकपुष्पादिमिः पूजाभिप्रायेण द्रव्यस्तवस्य साधूनां निषिद्धत्वमिति बोध्यमितिगाथार्थः ॥३१॥ अथ चन्द्रप्रभाचार्योक्तमुपसंहरबाह- इय चंदप्पहभणिओ दवत्थयहेउ दूसिओ किंची । अह तस्स पक्खवाईतिलगविगप्पंपि दूसेमि ॥३२॥
इति-प्रागुक्तप्रकारेण चन्द्रप्रभाचार्यभणितो द्रव्यस्तवहेतुर्दूषितः, अथ तस्य-चन्द्रप्रभाचार्यस्य पक्षपातितिलकाचार्यविकल्पमपि दूषयाम इति गाथार्थः, भावार्थस्तु जिनप्रतिमाप्रतिष्ठा न साधुकृत्यं, द्रव्यस्तवत्वादित्यादिरचनादिरूपेण प्राग् प्रदर्शित इतिगाथार्थः ॥३२॥ अथ तिलकाचार्यविकल्पमाहतिलगो कुवक्खतिलगो सावज्जत्तेण सड्ढकिचमिणं । इअ साहंतो साहइ अप्पस्सव मूढचकित्तं ॥३॥ तिलक-तिलकाचार्यः किंलक्षणः-'कुपक्षतिलकः' कुपाक्षिकाणां-स्तनिकागमिकादीनां तिलक इव, तत्पक्षपातित्वेन तल्ललाटे
॥१५॥