________________
श्रीप्रव
द्रव्यस्तवमावस्तवा
चनपरीक्षा ३विश्रामे ॥१५०॥
सचित्तवित्तजणिओ दवथओ जो हविज जावंतो। सो सड्ढाणमणुमओ सबपयारेण सबोऽवि ॥२८॥
चेइअवेयावच्चं उबएसणुमोअणेहिं साहणं । पायं जिणिंदणि न सयंकरणेण सदुध ॥२९॥ । सच्चितं-पृथिव्यादिवनस्पतिपर्यन्तं सुवर्णचन्दनादिकं प्रासादप्रतिमादिनिर्माणहेतुभूतं वस्तुजातं वित्तं-द्रविणं सौवर्णिकादि | धनं ताभ्यां जनितो यावान्-यो द्रव्यस्तवो भवेत् स श्राद्धानां सर्वोऽपि, अमुको द्रव्यस्तवः श्राद्धजातीयानां नोचित इत्येवंवचनस्थाप्यसंभवात् सकलोऽपि 'सर्वप्रकारेण' मनोकायकृतकारितैः अनुमतः-अनुज्ञातः श्रावकधर्मे युक्त इत्येवंरूपेण तीर्थकृतोपदिष्टः,तसाच्छ्रावकधर्मे द्रव्यस्तवो महानिति गाथार्थः ॥२८॥ अथ साधुधर्मे द्रव्यस्तवोऽल्पः कुत इत्याह-'चेइअ०' व्याख्या-चैत्यवैयावृत्यमुपदेशानुमोदनाभ्यां साधूनां प्रायो-बाहुल्येन,प्रायोग्रहणात्कारणविशेषे क्वचिदौचित्येन कृतिरूपेणापि जिनेन्द्रभणितम् ,औपचारिकविनयलक्षणो द्रव्यस्तवस्तु प्रागुक्त एव,न पुनः श्राद्धवत् सर्वः सर्वप्रकारेणेति स्वल्पत्वं द्रव्यस्तवस्येति गाथार्थः।।२९॥ अथ परः शंकते
णणु निरवजो वासो पूआ तेणेव किं न साहणं ? । तंपि अ पमाणमम्हं जइ जिणआणापइठ्ठव ॥३०॥ __ पूआ पइडिआणं पडिमाणं पूअणंति बुद्धीए । सा वीरेण निसिद्धा लिंगीण महानिसीहंमि ॥३१॥
वासः-चन्दनचूर्ण निरवद्यस्तेन वासेन हेतुभूतेन साधूनां पूजा किं न ?, कथं न भवतीत्यर्थ इतिपूर्वपक्षः, यथालिङ्गितमेवोत्तरमाह-'तपित्यादि तंपि अस्माकं प्रमाण-सम्मतमेव,यदि प्रतिष्ठावज्जिनाज्ञाऽभविष्यत ,यथा प्रतिष्ठा साधुना कर्तव्येत्यादिरूपेण जिनाज्ञा प्राग दर्शिता तथा चित्तवासेन जिनप्रतिमामपि साधुः पूजयेदिति जिनाज्ञा स्यात् , सा च नास्तीति नामाभिर्विधीयते,जिनाज्ञाया एवास्माकं प्रामाण्यादितिगाथार्थः ॥३०॥ अथ निरवयेनापि चासेन जिनपूजनं नोचितं तर्हि कथं जिनप्रतिष्ठाऽपीतिपराशंकामपाकुर्वनेव
॥१५०॥