________________
श्रीप्रकचनपरीक्षा
भावस्तवा
विश्रामे
॥१४८॥
THUPA
अथ श्रावकमार्गे भावस्तवापेक्षया द्रव्यस्तवस्य प्राधान्यमपीति दर्शयति
जं सावयवथओ बहुमुल्लो अप्पमुल्ल भावथओ । रूवमणुण्णोऽवि तओ गंतं भणइ वीरजिणो॥२५॥ यद्-यस्मात् श्रावकद्रव्यस्तवो बहुमूल्यः,अल्पमूल्यो भावस्तवः,सच भावस्तवो रूपेण मनोज्ञोऽपि द्रव्यस्तवमूल्यापेक्षयाऽल्पमूल्यः ततोऽनेकान्तं भणति वीरजिन इत्यक्षरार्थः, श्रावकधर्म द्रव्यस्तको रूप्यस्वरूपोऽपि गजशरीरतुल्यो, महापुण्यप्रकृतिजनकत्वेन स्वर्णरसरसितलोचनकल्पभावस्तवापेक्षया महानित्यर्थः, (भावस्तवस्तु) रूपमनोज्ञोऽपि स्वर्णतुल्योऽपि मूल्येनाल्पो, न हि लोचनप्रमाणं स्वर्ण गजकल्पेन रजतपुञ्जेन सह सममूल्यं भवति,तेन मूल्यमपेक्ष्य स्वर्णापेक्षयाऽपि रजतमुत्तमं स्वर्ण चानुत्तम,स्वर्ण |च धात्वपेक्षयोत्तमत्वेऽपि मूल्यापेक्षयाऽनुत्तममिति, अत एवैकमपि वस्तु कथश्चिदुत्तमं कथञ्चिच्चानुत्तममपीति नैकान्तं भगवान् | श्रीमहावीरो भणति-ब्रूते इति गाथार्थः ॥२५॥ अथोक्तयुक्त्या किं संपन्नमित्याह
तेणं सइ सामत्थे चेइअपमुहं महंतकजंपि। चइऊण य सामइ जुत्तं भंतित्ति संतसिआ॥२५॥ येन कारणेन प्रासादादिविधानादिद्रव्यस्तवापेक्षया सर्वविरतिरूपभावस्तवोऽनन्तगुणो भणितः तेन कारणेन सति सामर्थ्य प्रासादिनिष्पादनसामग्र्यां सत्यां चैत्यप्रमुख महदपि कार्य त्यक्त्वा सामायिकमेव युक्तं भावस्तवत्वादिति कस्यचिद्धान्तिः साऽपि 'संत्रासिता' सम्यक् प्रकारेण त्रासं नीता, विध्वस्तेत्यर्थः,प्रत्याख्यानेऽपि 'महत्तरागारेण मित्याकारस्य चैत्यादिप्रयोजननिमित्तमेवोक्तत्वात् , न पुनः सामायिकादिकार्यनिमित्तमपि, किंच-प्रतिष्ठादिनिमित्तं यथा सूरिप्रभृतयो महापुरुषा अपि देशान्तरतोऽप्यायाताआयान्ति च न तथा सामायिकादिनिमित्तमपि, तथा प्रायश्चित्तग्रन्थेऽपि प्रमादतः प्रतिमादिविनाशे यथा प्रायश्चित्तविधिरुक्तो
PARI
नन्तगुणो भाणादिति कस्यचिद्धानिमित्तमेवोक्त:
ALBUP
.
mamimime
||११८॥