________________
द्रव्य
भावस्तबो
श्रीप्रवचनपरीक्षा ३विश्रामे ॥१४७॥
'कंचणमणिसोवाण' मित्यादिगाथास्थाने 'आजम्मनिरतिचारं पोसहधम्म गुरुण पयमूले । जो कुणइ सुद्धभावो तओवि तवसंजमो अहिउ ॥१॥त्ति गाथामकथयिष्यन् , तच्च नोक्तं, कुत इतिपर्यालोचनया व्यवहारतः श्रावकधर्मे प्रासादप्रतिमादिकं तथा । तथाविधपूजादिकृत्यं च प्रवचनगौरवहेतुर्महाफलं, न तथा सामायिकादि, अत एव श्रीवज्रस्वाम्यपि कुसुमादिद्रव्यपूजानिमित्तं विद्याप्रयोगेण श्रीदेवताप्रभृतिसमीपे गत्वा कुसुमान्यानीय श्रावकेभ्यो दत्तवान् , साधवोऽपि कायोत्सर्गे "पूअणवत्तिाए"त्ति पाठोच्चारेण पूजाप्रत्ययिकफलमभिलषितवन्तो,न पुनः 'पोसहवत्तिआए'त्ति वचसा पौषधादिप्रत्ययकं फलं, किंच-साधुकायोत्स
र्गप्रत्ययिकफलापेक्षया कुसुमादिनाऽर्हत्पूजापत्ययकं फलं महत्संभाव्यते, अन्यथा साधोरपि "पूअणवत्तिआए" इत्यादिवाक्पद्धत्या । तथाप्रार्थनाया असंभवात् , नचैवं सारम्भोऽपि धर्मो निरारम्भधर्मापेक्षया शोभनः संपद्येत, तच्च न युक्तमिति शङ्कनीय, प्रागुक्त
गजदृष्टान्तेन कथञ्चिच्छोभनतया अपीष्टत्वादित्यलं विस्तरेणेति गाथार्थः॥२३॥ अथ प्रासादापेक्षयाधिको यस्तपःसंयमो भणितः ॥ स च साधुसंबंध्येवेत्यत्र युक्तिमाह
जं तेण संजमेणं मुत्तिसुहसंपयावि इअरेणं। अच्चुअकप्पो भणिओ महानिसीहंमि फुडमेअं ॥२४॥ यद्-यस्मात्कारणात्तेन-संयमेन मुक्तिसुखसंपदपि भणिता श्रीमहानिशीथे 'कंचणमणिसोवाण'मित्यादिगाथायां, "तओवि तवसंजमो अणंतगुणो"त्ति मणितं, तेन तपःसंयमेन "तवसंजमेण बहुभव" इत्यादिगाथायां मुक्तिसुखप्राप्तिर्भणिता इत्यनन्तरगाथाव्याख्यायां प्रदर्शितं, तच्च साधुतपःसंयममन्तरेणासंभवि, इतरेण-तव्यतिरिक्तेन प्रासादादिधर्मकृत्येनाच्युतदेवलोकं यावद्गतिरुता, एतच्च श्रीमहानिशीथे स्फुटमित्यत्र विचारणया येन तपःसंयमेनाच्च्युताचं गतिर्भवति स एव ग्राह्य इतिगाथार्थः ॥२५॥
॥१४७॥