________________
LAR
द्रव्य
भावस्ती
श्रीप्रवचनपरीक्षा विश्रामे ॥१४॥
AHINImamaAINA MILIPPIRAINRUPAIIMPLIFILMS
| कं तु मूलत एवोच्छिन्नसंकथं भवेद् , आस्तामन्यत , साधुदानादिकमपि विलीयेत, वस्त्रादिदानाथपेक्षया सामायिकमेकं सुखसाध्यं | महाफलं चेति विमुच्य को मृढात्मा दानादौ प्रतत ?, न च साधुदानाद्यपेक्षया सामायिक बहुफलं न भविष्यतीति शङ्कापि विधेया, यतो देवा अपि तीर्थकरसाधुदानादिरञ्जिता 'अहो दानमहोदान'मित्यादिहर्षप्रादुर्भुतवचोमितारमभिष्टुवन्तः कोटिशः कनकवृष्टिप्रमुखाणि पञ्च दिव्यानि कृतवन्तः, न तथा क्वापि कदाचिदप्येकस्यापि सौवर्णिकस्य मोचनं सामायिकादौ कृतवन्त इति स्वयमेव पर्यालोच्यं, किंच-प्रासादप्रतिमादयो हि साध्वादीनां मोक्षाध्वगानामध्वनि धर्मप्रपाः,तासां च व्युच्छेदे कोटिशो जनानां धर्मपिपासितानामनुपकारितया महापातकमिति तदनुत्साहोऽपि न कर्त्तव्यः, तस्मात् यथाशक्ति यथोचितं यथावसरं च परस्पराबाधया सर्वमपि धर्मानुष्ठानमनुष्ठेयं, नच सामायिकाद्यपेक्षया प्रवचनत्रभावना गरीयसी न भविष्यतीति शङ्कनीयं, प्रवचनप्रभावनाहेतवे सामायिककरणाभावस्याप्यनुज्ञातत्वाद् , यदागमः-"सो सड्ढो दुविहो-इडिंपत्तो अणिइटिंपत्तो अ, जो सो अणि दिपत्तो सो चेइघरे साहुसमीवे घरे पोसहसालाए वा जत्थ वा वीसमइ अच्छति वा निवावारो सवत्थ करेइ सवं, चउसु ठाणेसु नियमा कायई, तंजहा-चेइयघरे साहुमूले पोसहसालाए वा घरे वा,आवस्सयं करतो'त्ति इत्यादि यावत् 'साहुसक्खिअंसामातितं करेति-करेमि भंते! सामाइअं सावजं जोगं पच्चक्खामि दुविहं तिविहेणं जाव साहू पज्जुवासामित्तिकाऊण, जइ चेइआई अस्थि तो पढमं वंदति,साहूर्ण सगासाओ रयहरणं निसिजं वा मग्गति,अह घरे तो से उग्गहिरयहरणं अत्थि, तस्स असति पोत्तस्स अन्तेण,पच्छा इरिआवहिआए पडिक्कमइ, पच्छा आलोइत्ता वंदति आयरिआदी जहारायणिआएत्ति,पुणोऽवि गुरुं वंदित्ता पडिलेहिता निविठ्ठो पुच्छति पढइ वा, |एवं चेइएसुवि, असइ साहुचेइआणं पोसहसालाए सगिहे वा,एवं सामाइ आवस्मयं वा करेति,तत्थ नवरि गमणं नत्थि, भणङ्जा
॥१४४॥