________________
भावस्तबौ
श्रीप्रवचनपरीक्षा ३विश्रामे ॥१४३॥
न पुनरौपाधिकः, अल्पोऽपि भावस्तवः पुनः कीदृशः ?-'स्वरूपबहुकान्तः' स्वरूपेण-वस्तुस्वभावेन बहुकान्तः-अतिशयेन मनोहरः,द्रव्यस्तवापेक्षयातिसुन्दर इत्यर्थः,अथ द्रव्यस्तवभावस्तवयोरल्पानल्पत्वज्ञापनाय दृष्टान्तमाह-'रययामए'त्यादि,रजतं-रूप्यं | तन्मयः-तनिष्पन्नो यो गजो-हस्ती तस्य काञ्चननयनं-सुवर्णमयलोचनं तद्वत् , रूप्यमयहस्तिनो हेममयलोचनकल्पो भावस्तवः श्रावकाणामित्यर्थः, अयं भावः-देशविरतिलक्षणो धर्मस्तावद्गजतुल्यः, स च द्रव्यस्तवभावस्तवाभ्यां विभज्यमानो रजतशरीरतुल्यो द्रव्यस्तवः, भावस्तवः पुनः काश्चनलोचनसदृशः, काश्चनलोचनमपि न सर्वात्मना, किंतु काश्चनरसरसितत्वेन काश्चनलोचनमिवावभासमानं ग्राह्यम् , अन्यथा साधुश्रावकधर्मयोरल्पतरमेवान्तरं स्याद्, विद्यते च महद् , एवं च सति यद्यपि स्वभावतः सुवर्णमतिसुन्दरं भवति तथाप्युक्तदृष्टान्तरीत्या नयनप्रमाणं सुवर्ण गजशरीरतुल्यस्य रजतपुञ्जस्य मूल्यं न लभते, तमात्स्वभावत उत्तमत्वेऽपि मूल्यमाश्रित्यानुत्तमत्वमेव, स्वल्पत्वाद् , एवं श्रावकधर्मे बहुवित्तव्ययायाससाध्यप्रासादप्रतिमाप्रतिष्ठायात्रासाधम्मिकवात्सल्यादिलक्षणो द्रव्यस्तवो भूयस्त्वात प्रवचनोत्सर्पणादिहेतुत्वादन्येषां चामिन्नग्रन्थिकानामनुमोदनादिना ग्रन्थिभेद| हेतुत्वाद्भिन्नग्रन्थिनां चोत्साहप्रवर्द्धनेन चोधे मल्यहेतुत्वात्पूज्यपूजाप्रवृत्तिहेतुत्वाद्धर्मानभिमुखीभूतानामपि धर्माभिमुखीकरणहेतुत्वा|दित्यायनेकहेतुमिर्यथा सुगतिसाधको भवति न तथा सामायिकादि, यतः सामायिकेपि साध्वनुकृतिमात्रेणैव भावस्तवत्वात् स्वमा|वत उत्तमत्वेऽप्यल्पत्वादल्पप्रयाससाध्यत्वादल्पर्द्धिकप्रभृतिभिरपि कर्तुं शक्यत्वाच्च, नचैवं सामायिकादिकरणे निरुत्साहता भविप्यतीतिशङ्कनीयं, यतो महति प्रासादादिद्रव्यस्तवे सामर्थ्याभावाद्यदि सामायिकादिकमपि न करोति तर्हि तेनापि वश्चितः सन्नुभयभ्रष्टो भवति, किंच-यदि सामायिकादावुत्साहप्रवृद्ध्यर्थ प्रासादाद्यपेक्षया सामायिकादौ भूयान् लाभ उपदिश्यते तर्हि प्रासादादि
MAITHILIANISMAPARILALIBUDAURARITREESPIRATIONPATIRATRAIL
॥१४॥