________________
श्रीप्रवपनपरीक्षा ३विश्रामे ॥१२॥
भावस्तवः, इतर:-कुसुमादिभिर्जिनपूजा 'दव्यु'त्ति पदैकदेशे पदसमुदायोपचाराद्रव्यस्तव इति व्यवहारो बहुत्वमधिकृत्यैव, यतः सामायिकवान् श्रावको बाह्यवृत्या भूयोभिरनुष्ठानैः साधुसमानो दृश्यते, अत एव कृतसामायिकः श्रावकः साधूपमामपि लभते, भावस्तबा यदागमः-“सामाइमि उ कए समणो इव सावओ हवइ जम्हा। एएहिं कारणेहिं बहुसो सामाइअं कुज॥१॥ ति" (आव. सू० २०17 नि. ८०१) श्रीआवश्यकनि०, न चैवं वस्तुगत्या श्रावकधर्मस्यारम्भकलुषितत्वेन केवलं द्रव्यस्तवत्वमेव भविष्यतीति शङ्कनीयं, द्रव्यस्तवमावस्तवयोरन्योऽन्यानुविद्धत्वेन प्रागेव भणितत्वात् , किंच-सामायिकादौ क्रियामधिकृत्य साध्वनुकृतिमात्रेण व्यवहारविषयो भावस्तवः, सर्वविरतिमतामुपष्टम्भकत्वेन कारितानुमतिरूपो वस्तुगत्या भावस्तवः श्रावकाणामित्यल्पत्वं, बहुत्वं च 'निअदपथया' इत्यादिगाथामिर्गजदृष्टान्तेन वक्ष्यत इतिगाथार्थः ॥२०॥ अथ श्रावकाणां द्रव्यस्तव एवेत्यत्र व्यवहारे युक्त्यन्तरमाह
दवथओ खलु राया तयणुचरो सावयाण भावथओ। समणाणं विवरीआ पहाणभावेण ववहारो॥२१॥ __ श्रावकाणां खलुः-अवधारणे द्रव्यस्तव एव राजा-भूपतिस्तदनुचरो-द्रव्यस्तवलक्षणस्य राज्ञोऽनुचरः-सेवको भावस्तवः, श्रमणानां, तु गम्यः, साधूनां तु विपरीतौ-राजा भावस्तवः तदनुचरो द्रव्यस्तव इति, व्यवहारस्तावत् प्रधानभावेनेतिकृत्वा श्रावक|धर्मो द्रव्यस्तव एव,साधुधर्मो भावस्तव एवेति व्यवहारो न दोषावहो, लोकेऽपि राजा गच्छतीत्यादिर्व्यवहारः स्फुट एवेति गाथार्थः |॥२१॥ अथ श्रावकमार्गे भूयान् द्रव्यस्तवोऽल्पीयांश्च भावस्तव इति प्रदर्शनाय सदृष्टान्तां गाथामाह
नियदवथया अप्पो सहावसिद्धो सरूवबहुकंतो। रययामयगयकंचणनयणं व गिहीण भावथओ॥२२॥ | गृहिणां-श्रावकाणां स्वकीयद्रव्यस्तवाद्धावस्तवोऽल्पः-स्तोकः, किंलक्षणः-स्वभावसिद्धः, श्रावकधर्मस्य तादृक् स्वभाव एव,
वि एव, D/ ॥१४॥