________________
श्रीप्रवचनपरीक्षा ३ विश्रामे
॥ १४१ ॥
द्वापि स्तव - द्रव्यस्तव भावस्तवावन्योऽन्यं - परस्परं सापेक्षौ, भावस्तवो द्रव्यस्तवं विहाय न केवलः क्वापि तिष्ठति, न वा | द्रव्यस्तत्रः केवलो भावस्तवं विहाय क्वापि तिष्ठति, किंतु सामानाधिकरण्येन द्वावपि तिष्ठतः, तथा च साधुश्रावकयोः साम्यं मा |भवत्वित्याह- श्रावकाणां बहुद्रव्य इति-भूयान् द्रव्यस्तवोऽर्थात् स्वल्पो भावस्तवः साधूनां बहुभावो-भूयान् भावस्तवोऽर्थादल्पो द्रव्यस्तवः, व्यवहारो बहुस्तवाद् — व्यवहारप्रवृत्तिः पुनर्यो यत्र भूयान् तदनुसारेणैव बोध्या, तेन श्रावकधर्मो द्रव्यस्तवात्मको | भावस्तवात्मको यतिमार्ग इति नोपदेशमालावचनविरोध इति गाथार्थः ||१९|| अथ बहुधर्मानुसारेण व्यवहारे दृष्टान्तमाहजह सावयाण धम्मो सो आरंभकलुसिओवि तहिं । सामइअं भावथओ इअरो दव्वुत्ति वबहारो ॥२०॥
यथा श्रावकाणां धर्मः सर्वोऽप्यारम्भकलुषितः - आरम्भाध्यवसायमलिनस्तत्रापि सामायिकं भावस्तव इतरो - जिनभवनजिनबिम्बादिनिर्मापणादिकुसुमादिपूजापर्यन्तो धर्मः 'दव 'त्ति पदैकदेशे पदसमुदायोपचारात् द्रव्यस्तव इति व्यवहारो बहुत्वमधिकृत्यैव, | अयं भावः - यथा कुसुमादिपूजाध्यवसायो ह्यारम्भाध्यवसायकलुषितः तथा सामायिकाध्यवसायोऽपि धनधान्यपुत्रकलत्रादिमम| त्वभावयुक्तस्य अप्रत्याख्यातानुमत्यारम्भस्य सामायिकेऽप्युद्दिष्टभोजिनः श्रावकस्यारम्भाध्यवसाय कलुषित एवं यदागमः- “ कामी सघरंगणओ थूलपइण्णा सि होइ दट्ठव्वा । छेअण मे अकरणा उद्दिट्ठकर्डपि से भुंजे ॥ १ ॥ " इति श्रीनिशीथ भाष्यम्, एतच्चूर्णिरेवं- पंच | विसया कामेइति कामी, गृहश्राङ्गना च गृहाङ्गने सह गृहाङ्गनाभ्यां यः स सगृहाङ्गनकः, धूलपइण्णा - देसविरइत्ति वृत्तं भवति, साहूणं सङ्घविरई, वृक्षादिच्छेदने पृथिव्यादिभेदने प्रवृत्तः, सामायिकभावादन्यत्र, जं च उद्दिट्ठकडं तं कडसामइओवि भुंजइ, एवं स सर्वविरतो न भवति इति श्रीनिशीथचूर्णो उ० १५ पत्रे, (1१-१५-२७५, २९१ ) एवं सर्वत्रापि साम्ये सत्यपि सामायिकं
द्रव्यभावस्तवौ
॥ १४१ ॥