SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ श्रीप्रववनपरीक्षा ३ विश्रामे ॥१४०॥ आदिशब्दात्सत्कारादिपरिग्रहः, उपपन्नं - संगतं भवति - वर्त्तते यतेरपि - भावस्तववतो, न केवलं गृहिण एवेतिगाथार्थः । इति पंचा वृत्तौ नचैवं पुष्पादिभिरपि साधूनां द्रव्यस्तवस्य कर्त्तव्यताऽऽपत्तिरितिशङ्कनीयं तथैव जिनाज्ञायाः सद्भावात्, तथाकरणे च कृत्स्न| संयमस्य हानिः स्याद्, एतच्च सविस्तरं किञ्चित् पंचाशके 'सक्खाउ' (२८४ ) ति गाथायामुक्तमस्ति ततो ज्ञेयमिति, इह तु विस्त| रभयान्नोक्तं, द्रव्यस्तवस्य कारितत्वं तु उपदेशद्वारा प्रतीतमेव, एवं कृतकारितानुमतलक्षणस्य द्रव्यस्तवस्य क्वचित्कथञ्चित्साधुकर्त्तव्यतया सिद्धेर्यदि प्रतिष्ठाऽपि भावस्तव हेतुतया द्रव्यस्तत्वेनाभिमता तर्हि भवदुक्तयुक्त्या द्रव्यस्तववत्प्रतिष्ठाऽपि तदन्तर्गता साधुक| श्यतयैव ज्ञेया, अन्यथा तीर्थसम्मताः श्रीहरिभद्रसूरि श्रीउमास्वातिवाचकप्रभृतयो महापुरुषाः निजकृतप्रतिष्ठाकल्पेषु मन्त्र| न्यासादिविधिं सूरिकर्त्तव्यतया कथमकथयिष्यन् १, तीर्थक्रुदाज्ञामन्तरेण तथा कथने तेषां तीर्थबाह्यताऽभविष्यत्, तथा च तत्कृता | ग्रन्थास्तीर्थसम्मततया नाप्रवर्तिष्यन्, यथा कुपाक्षिकतिलकाचार्यकृतः प्रतिष्ठाकल्पः, नच तिलकाचार्यकृतावश्यकवृध्यादयोंऽपि प्रवत्तन्ते इतिवाच्यं, प्रवचनपरमार्थविद्भिस्तत्कृतेस्तिरस्कृतत्वात्, तिलकाचार्यकृतेः प्रामाण्ये 'भरतः स्वयं प्रतिष्ठितवानिति 'धूमसयभाउआणं' (आव. मू. भा - ४५ ) गाथाव्याख्याने भणितं तच्चानागमिकमेव, तदभ्युपगमे च श्रीहरिभद्रसूरिप्रभृतिकृतीनामप्रामाण्यापच्या तीर्थमपि परिहरणीयं स्यात्, तस्मात् तीर्थतिलकाचार्ययोः परस्परं विपरीतप्ररूपिणोरेकतरपरिहारस्यावश्यकत्वात् तिलकाचार्यस्यैव परिहारः श्रेयान् प्रवचनविदामितिगाथार्थः ॥ १८ ॥ अथ 'भावच्चणमुग्गविहारया ये' तिगाथायां श्रावकमार्गो द्रव्यस्तवो भावस्तवस्तु साधुमार्ग इति कथं नियतवाक्यमित्याशङ्कापरिहाराय गाथामाह अणुण्णं साविकखा दोवि थया सावयाण बहुदवो । बहुभावो साहूणं ववहारो बहुधवा णेओ ॥ १९ ॥ श्रावकप्रतिष्ठाप्रतिषेधः ॥१४०॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy