SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ३विश्रामे ॥१३९॥ श्रावकप्रतिष्ठाप्रतिषेधः PrimmilindaiindianRIALISA SHAIL MAILIPINIA MARATHILAIMILAPAITHALIANIRUPIANORANHIRAIL णाणाइविणयविहिणो चउहा उवयारविणयरूवो जो। सो दवथयाणण्णो कायवो सबसाहणं ॥१८॥ 'ज्ञानादीनां ज्ञानदर्शनचारित्रोपचाररूपाणां विनयविधयश्चतुर्दा,तत्रोपचारो-लोकव्यवहारः पूजा वा प्रयोजनमस्येत्यौपचारिको -भक्तिरूपो यः स 'द्रव्यस्तवानन्यः' द्रव्यस्तवादन्यो न भवति,द्रव्यस्तव एवेत्यर्थः,स च साधूनां कर्त्तव्यः-कर्त्तव्यतया जिनैरु पदिष्टः,यदुक्तं-"जं च चउद्धा भणिओ विणओ उवयारिओ अ जो तत्थ । सो तित्थयरे नियमान होइ दवत्थया अण्णो॥१॥एअस्स । उ संपाडणहेऊ तह हंदि वंदणाएवि। पूअणमाउच्चारणमुववण्णं होइ जइणोऽवि।।२॥ इति पश्चाशके (२८१-२८२) (पंच०१२१९-२०) एतवृत्तिर्यथा 'जं च च०' व्याख्या-यद्-यस्मात्कारणात् , चशब्द उपपत्त्यन्तरसमुच्चयार्थः, चतुर्दा-चतुर्भिः प्रकारैः ज्ञानदर्शनचारित्रोपचारलक्षणैर्भणितः-साधूनां विधेयतया वर्णितोविनयसमाध्यध्ययनादौ विनयः-कर्मविनयनसमर्थोऽनुष्ठानविशेषः, 'तत्थ'त्ति तत्र-तेषु चतुर्ष विनयेषु मध्ये उपचारो-लोकव्यवहारः पूजा वा प्रयोजनमस्येति औपचारिको भक्तिरूपः,तुशब्दः पुनरर्थे, य इति विनयःस-इत्यसौ तीर्थकरे-अर्हद्विषये नियमाद्-अवश्यंभावेन न भवति-न वर्तते द्रव्यस्तवाद-पूजादेःअन्यः-अपरो, द्रव्यस्तव एवासावितिभावः,तस्माद्रव्यस्तवानुविद्धो भावस्तव इति प्रकृतम् ।। औपचारिकविनयस्वरूपं चेदं-"तित्थयरसिद्धकुलगणसंघकिरिअधम्मणाणणाणीणं । आयरियथेरुवज्झायगणीणं तेरस पयाणि ॥१॥ अणसायणा य१ भचीर बहुमाणो३ तहय वण्णसंजलणा४ । तित्थयराई तेरस चउग्गुणा हुंति बावण्णा।।२।। (दश०नि० ३२७-८) इति गाथार्थः।। यदि द्रव्यस्तवादन्यो नासौ ततः किमित्याह-'एअस्स द०' व्याख्या-एतस्य तु-एतस्यैव द्रव्यस्तवरूपौपचारिकविनयस्य 'संपादनहेतुः' संपादनार्थ 'तह चेव'त्ति तथैव-तेनैव प्रकारेण कायोत्सर्गकरणलक्षणेन वन्दनायां-चैत्यवन्दनायां, तुशब्दः पूरणे, 'पूजनाधुच्चारणं पूजाप्रभृतिपदामिधानम् , ॥१३९॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy