________________
श्रावकप्रति
श्रीप्रवचनपरीक्षा ३विश्रामे ॥१३८॥
ठाप्रतिषेधः
स्त्वेवं-कायोत्सर्गे मुनीनामपि 'वंदणवत्तिआए'इत्यादिसिद्धान्तः,यदुक्तं-"तंतंमि वंदणाए पूआसकारहेउमुस्सग्गे। जइणोऽविहु निहिछो| सो पुण दवत्थयसरूवो ॥१॥" इति गाथार्थः॥१६॥ अथाऽऽस्तां साधुः,जिनेन्द्रस्याप्यनुमोदनालक्षणो द्रव्यस्तवोऽस्तीति दर्शयति
किंचण्णजणो दूरे बलिपमुहं जिणवराणमोसरणे । अणिसेहा अणुमोअणमाइअविसओ अ दवथओ॥१७॥ ___ 'अन्यजनों जिनेन्द्रापेक्षयाऽन्यः साधुजनो दूरे आस्तां, साधुजनस्यानुमोदना तु भवत्येव, परं जिनेन्द्रस्यापीत्यर्थः, तत्कथमित्याह-'बली' त्यादि, समवसरणे बलिप्रमुखमनिषेधादनुमोदनाविषयो भवति, स च द्रव्यस्तव एव, यदुक्तं-"ओसरणे बलिमाई, णवेह जं भगवयावि पडिसिद्ध। तो एस अणुण्णाओ उचिआणं गम्मई तेणं॥१॥ण य भगवं अणुजाणइ जोगं मोक्खविगुणं कयाईवि। नय तयणुगुणोवि तओ बहुमेओ होइ अण्णेसिं ।।२।। इति पञ्चाशके (२७५-२७६) (पंच. १२१३-१४) 'ओसरणेत्ति समवसरणे-देवसंस्कृतभगवद्याख्यानभूमौ बल्यादि-उपहारप्रभृति,आदिशब्दाद्गन्धमाल्यादि (ल्यगीत) वाद्यपरिग्रहः,'न' नैव,चशब्दो द्रव्यस्तवादन्यस्य समर्थनकारणान्तरस्य समुच्चयार्थः इह' आगमे लोके वा 'यद्'यस्मात्कारणाद्भगवतापि-जिनेनापि,तेन हि किल निरतिचारचारित्रितया निषेधनीयं स्यादित्यपिशब्दार्थः, [न] प्रतिषिद्धं-न] निवारितं 'ता'इति ता-तस्मात्कारणादेषः-द्रव्यस्तवो, बल्यादिविधानस्य द्रव्यस्तवत्वाद् ,अनुज्ञातोऽनुमत इति गम्यते-अवसीयते, 'अप्रतिषिद्धमनुमत मितिवचनाद् ,उचितानां-तद्योग्यानां गृहस्थानां,राजादीनामित्यर्थः,तेन भगवता-जिनेनेति, आह च-"राया व रायमच्चो तस्सासइ पउरजणवओवावि । दुब्बलिखंडिअबलिछडिअतंदुलाणाढयं कलमा ॥१॥ भाइअपुणाणिआणं अखंडफुडिआण फलगसरिआणं । कीरइ बली सुराविअ तत्थेव छुहंति गंधाई ॥२॥ (आव०नि-५८४-५) इत्यादीतिगाथार्थः ॥१७॥ अथ क्वचित्कर्त्तव्यरूपोऽपि द्रव्यस्तवो जिनाज्ञेति दर्शयति
॥१३८॥