________________
श्रीप्रवचनपरीक्षा विश्रामे ॥१३७॥
दवत्थउत्तिकाउं पइट्ठकिंच न साहुणो सम्म। अण्णाणमूलमूलं वयणमिणं भणइ मूढमणो ॥१५॥ . श्रावफप्रधद्रव्यस्तव इतिकृत्वा साधूनां प्रतिष्ठाकृत्यं न सम्यग्-न युक्तमिति, इदं वचनं मृढमनाश्चन्द्रप्रभाचार्यो भणति, तद्वचनं कीदृग्ठाप्रतिषे : -'अज्ञानमूलमूलम्' अज्ञानमूलं-ज्ञानावरणीयं कर्म तस्यापि मूलं-मोहनीय, तदप्यभिनिवेशरूपं मिथ्यात्वमोहनीयं बोध्यं, सर्वेपामपि कर्मणां मोहनीयमूलकत्वाद् , अज्ञानमूलमूलमिति अभिनिवेशमिथ्यात्वमूलकमित्यर्थ इति गाथार्थः ॥ १५ ॥ अथ तथा | वक्तुर्मूढत्वं कुत इत्याह
दवत्थओऽवि समए पडिसिद्धो सबहा न साहणं । अगुमोअणाइरूवो काउस्सग्गे मुणीणपि ॥१६॥
'समये जिनशासने साधूनां द्रव्यस्तवः सर्वथा न प्रतिषिद्धः, यतोऽनुमोदनादिरूपः कायोत्सर्गे मुनीनामपि भणितः-वंदन| वत्तिए पूअणवत्तिआए सकारवत्तिआए इति वचनैरनुमोदनालक्षणो द्रव्यस्तवः साधूनामप्यागमे भणितः,स च तेनाज्ञेन न ज्ञातः, न च द्रव्यस्तवोऽनुमोदनारूपो भावस्तवो भविष्यतीतिशङ्कनीय, द्रव्यस्तवोऽपि कृतकारितानुमतिभिर्विभजनीयः, तथा चानुमोदनारूपोऽपि द्रव्यस्तवो भवत्येव, अयं भावः केवलो द्रव्यस्तवः कस्यापि न संभवति, न वा केवलो भावस्तवोऽपि, किंत्वन्योऽन्यानुसमनुविद्ध एव, यदुक्तं-"दवत्थयभावत्थयरूवं एअंपि होइ दट्ठवं । अण्णुण्णसमणुविद्धं निच्छयओ भणिअविसयं तु॥१॥(१२०९) इति पञ्चवस्तुके, तेन भव्यविधिना पुष्पादिकृतां जिनेन्द्रपूजामालोक्य तत्कर्तुरुत्साहप्रवर्द्धनार्थ पूजाजन्यफलप्राप्त्यर्थ च धन्योऽयं जिनेन्द्रपूजाकर्तेत्यादिवचोभिरनुमोदनालक्षणोऽभितो द्रव्यस्तवः साधूनामपि, यदुक्तं-"जइणोवि हु दश्वत्थयमेओ अणुमोअणेण अस्थिति । एवं च इत्थ णेअंइअ सुद्धं तंतजुत्तीए ॥१॥ (१२१०) इति 'तंतजुत्तीए'त्ति तंत्रयुक्क्या-सिद्धान्तयुक्क्या, तन्त्रयुक्ति
GIL