________________
श्रीप्रबचनपरीक्षा ३विश्रामे ॥१३६॥
श्रावकप्रतिष्ठाप्रतिषेधः
केवल्यादिनिम्मितं, तथाहि "केवल्येष स्वयंबुद्धः, श्वेताम्बरशिरोमणिः । कर्ता प्रतिष्ठा कोऽप्येष, पुण्यानामुदयस्तव ॥१॥ ततश्वावन्तिनाथेन, प्रार्थितः कपिलो मुनिः। प्रत्यष्ठात्प्रतिमा मन्त्रपूर्व चूर्ण विनिक्षिपन् ॥२॥" इति श्रीहेमाचार्यकृतश्रीमहावीरच|रित्रे११ सर्गे,तथा "प्रतिष्ठाप्य जिनेन्द्राणां,प्रतिमा निम्मिता नवाः। विधिना सूरिमन्त्रेण,गुरुणा ब्रह्मचारिणा॥१।इति सम्यक्त्वकोमुद्यां तृतीयप्रस्तावे तृतीयकथायां,तथा "प्रतिष्ठामर्हतां यो हि,कारयेत्सरिमन्त्रतः। सोर्हत्प्रतिष्ठां लभते,यथा वापस्तथा फलम्॥१॥ | इति बृहच्छत्रुञ्जयमाहात्म्ये, तथा "सर्वतीर्थोदकैः सौषधीभिर्देवताहृतैः । शास्त्रोक्तविधिना भूपः, प्रतिष्ठामप्यकारयत् ॥१॥ वासाक्षताः सूरिमन्त्रेणाभिमन्त्र्य पवित्रिताः । क्षिप्ता ध्वजेषु दण्डेषु, चैत्यबिम्बेषु सूरिभिः ॥२॥ इति वि० सं० ४७७ वर्षे निष्पन्ने श्रीशत्रुञ्जयमाहात्म्ये लघुनि, तथा तत्रैव-तत्र "एवं सिंहनिपादाख्यं, प्रासादं भरताधिपः। कारयित्वा प्रतिष्ठाप्य, जिनांचापूजयततः॥१॥ इति श्रीश० अष्टापदप्रासादप्रतिष्ठाधिकारे, एवमनेकेष्वपि चरित्रेषु भरतादीनां श्रीनाभसूरिश्रीविद्यासागरसूरिप्रभृतिमिः प्रतिष्ठा कारयितृत्वेन प्रयोगा दृश्यंते,न पुनः स्वयं प्रतिष्ठाकर्तृत्वेनेति । तथा जीर्णप्रतिमास्वपि 'श्रीजगत्सूरिभिः प्रतिष्ठितं | श्रीमहावीरं विम्ब'मित्यादिरूपेण सूरीणां बिम्बानां च नामपरावृत्यापि सरिरेवोपलभ्यते, न पुनः क्वाप्यमुकश्रावकेणेदं बिम्बं प्रति|ष्ठितमित्याधुपलभ्यते, एवं प्रासादप्रशस्त्यादावपि बोध्यम् , एवं विधिवादचरितवादाभ्यां प्रतिष्ठा मुनिकार्यत्वेनैव सिद्धा, न चैवं
पूर्व कथञ्चिच्छ्रावककृत्यत्वेनाप्युक्ता तथा चासंगतिरिति शङ्कनीयं, वस्तुगत्याऽन्त्यक्रियैव फलवतीतिकृत्वा सूरिकृतनेत्रोन्मीलनादि|क्रियैव प्रतिष्ठोच्यते, सा चोक्तप्रकारेण मूरिकृत्यत्वेनैवागमसिद्धा, सा च तवाभिप्रायेण भावस्तवतयैवाविवादेन साधुकर्त्तव्यतया प्रतिष्ठा सिद्धेतीष्टापत्तिरस्माकमिति गाथार्थः॥१४॥ अथ द्रव्यस्तवत्वेन हेतुना प्रतिष्ठाकृत्यं साधोर्नोचितमितिवचनं कीदृगित्याह
॥१३६॥