________________
भीप्रव चनपरीक्षा ३ विश्रामे
॥१३३॥
कार्या, प्रतिष्ठाकृत्यमपि सूरिश्रावकयोरन्यतरेण कर्तुमशक्यं, जघन्य विधावपि श्रावकानी तवासमन्तरेण प्रतिमानां मस्तके मन्त्रन्यासं च कुर्वन् दक्षिणकर्णे च किं प्रक्षिपति ?, आनीतमपि वासं सूरीणामपि जिनेन्द्रबुद्ध्याराधनीयानां जिनप्रतिमानां मस्तके कः प्रक्षिपति १, न चैवं सामान्यसाधुकृता प्रतिष्ठा सूरेरप्रमाणं भविष्यतीति शङ्कनीयं, स्वहस्तदीक्षितसाधुरिव सामान्यसाधुदीक्षितसाधुरविशेषेण प्रमाणीभवन्निव स्वप्रतिष्ठितप्रतिमेव साधुप्रतिष्ठिताप्यविशेषेण प्रमाणमेवेतिप्रसिद्धेः, न पुनर्महर्द्धिकेनापि श्रावकेण दीक्षितः साधुः स्यात्, एवं श्रावकप्रतिष्ठिताप्रतिमाऽपि प्राज्ञशेखरं चन्द्रप्रभाचार्यं विहाय नान्यस्य कस्यापि प्रमाणं भवेदित्यादि नेत्रे निमील्य पर्यालोच्यमिति गाथायुग्मार्थः ॥ ८-९ ॥ अथ सिंहावलोकनन्यायेन चन्द्रप्रभाचार्यस्याशङ्कामाह
अह भावत्थयहेऊ दवथओ न य मुणीण सो जुत्तो । जण्णं मुणीण मग्गो सिद्धफलो भावश्यरूवो ॥१०॥ अथ भावस्तवहेतुर्द्रव्यस्तवः, स च मुनीनां न युक्तः, यद् - यस्मात्, णमित्यलङ्कारे, मुनीनां मार्गों भावस्तत्ररूपः 'सिद्धफलः' सिद्धं फलं द्रव्यस्तवस्य भावस्तवलक्षणं यस्य स तथेति गाथार्थः || १० || अथ मुनीनां मार्गों भावस्तवरूपः कुत इत्याहआरंभकलुभावो कत्थवि नत्थित्थ पुण्ण जिणआणा । देसाणो सारंभो सावयधम्मो अ दवथओ ।। ११ ।।
अत्र - मुनिमार्गे कुत्रापि आरम्भेण - पृथिव्यादिविराधनया कलुषभावः - आविलस्वभावो नास्ति, तत्कुतो ?, यतो मुनिमार्गे जिनाज्ञा पूर्णा वर्त्तते, 'सवाओ पाणाइवायाओ वेरमण' मित्यादिरूपेण जिनोपदिष्टमार्गः, सर्वात्मना मुनिभिरङ्गीकरणात्, चः पुनः, 'श्रावकमार्गो द्रव्यस्तवः', कुतो १, यतः स 'देशाज्ञो' देशेन - अंशेनाज्ञा यत्र स तथा, तत्कुतो ?, यतः सारम्भः पृथिव्याद्यारम्भाव्यवसायकलुषित इत्यर्थः, अयं भावः - जिनेन्द्रैरुत्सर्गतः साधुमार्ग एवोपदिश्यते, तत्राशक्तस्य 'थूलाओ पाणाइवायाओ वेरमणं'
श्रावकप्रतिष्ठाप्रतिषेधः
॥१३३॥