________________
TI
श्रावकप्रतिष्ठाप्रतिषेधः
A
श्रीप्रवचनपरीक्षा ३विश्रामे ॥१३२॥
रहजत्तण्हवणपमुहं सावयकिच्चं सचित्तमाईहिं । जइ गणहरपयठवणा जिर्णिददेविंदवावारा॥९॥ युग्म
स्तुतिदानादयः षट् गुरोरधिकारा जिनोपदिष्टाः। 'रहजत्ते त्यादि, रथयात्रास्नपनप्रमुखमशेषं शेषं श्रावककृत्यं, तत्र हेतुमाह| 'सचित्ते'त्यादि प्रायः श्रावककृत्यं सचित्तादिभिर्द्रव्यैः स्यात् , तानि च साधूनां न स्पर्शविषयोऽपि, तथैव जिनाज्ञेति चोध्यं, | अथोत्तरार्द्धन दृष्टान्तमाह-'जहे'त्यादि, यथा गणधरस्य पदस्थापना 'जिनेन्द्रदेवेन्द्रव्यापारात्' तीर्थकदेवेन्द्रक्रियाभ्यां भवति, न पुनः केवलेन तीर्थकृता, न वा शक्रेण, किंतु ?, उभाभ्यामेव, तत्र जिनेन्द्रकृत्यं निरवा, शेषं तु देवेन्द्रादिसुरकृत्यं सचित्तादिद्रव्यसाध्यमपि, तथाहि-प्रथमसमवसरणे चन्दनकर्पूरादिसर्वोत्तमसुगन्धद्रव्यनिष्पन्नेन दिव्यवासेन वज्रमयं स्थालं भृत्वा कराभ्यामादाय देवेन्द्रः समायाति, भगवान् श्रीवीरस्तु रत्नसिंहासनादुत्थाय शक्रहस्तगतस्थालाद् घनतरनिबिडां वासमुष्टिं भृत्वार क्रमस्थि| तगौतमादिमस्तकेषु "उपजए वा विगमए वा धुवए वा" इत्यनुज्ञात्रिकं कुर्वन् प्रत्येकं वासमुष्टिकं प्रक्षिपति, अन्ये च बहवो देवा देव्यश्च भक्तिभरोल्लसितमानसा विस्मयोत्फुल्लनयनाः तीर्थकृद्गणधरादिदर्शनेनात्मानं धन्यं मन्यमाना दिव्यचन्दनादिसुगन्धवासमुष्टिं जलस्थलसमुद्भूतदिव्यकुसुमवृष्टिं च गौतमादीनामुपरि कुर्वन्ति, न चैतत्कृत्यं जिनेन्द्रदेवेन्द्रयोरन्यतरेण कर्तुं शक्यते, त्रैलोक्यपूज्योऽपि श्रीवीरजिनेन्द्रो गौतमादीनां मस्तके शक्रानीतवासमन्तरेण किं प्रक्षिपति !, आनीतमपि वासं निजपट्टधरतया व्यवस्थापनीयानां गणधराणां गणधरपदस्थापनानिमित्तं श्रीवीरमन्तरेण कः करोति !, भगवद्वासक्षेपानन्तरं देवानामपि पूज्यो भवति गणधरादिसाधुवर्ग इति ज्ञापनाय देवदेवीभिर्विना कुसुमादिवृष्टिं के कुर्वन्तीत्यादिव्यतिकरण संयोग एव फलवान् , | यदागमः-"संजोगसिद्धीइ फलं वयंति,न हुएगचकेणरहो पयाइ" इति (आव०नि० १०२) एतदृष्टान्तेन दार्टान्तिकयोजना त्वेवं
MIRAIMILargamM
AMDHURImpainmmummHIBILIPHATOP
INSPIRINEETIHATRALIA
||१३२॥