SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ श्रावकातिठाप्रतिषेधः श्रीप्रवचनपरीक्षा ३विश्रामे ॥१३॥ Maralim दिमिः क्रियाविशेषः पूजोच्यते, अन्यथा प्रतिष्ठाया वैयर्थ्यमापद्येत, अप्रतिष्ठिताया अपि प्रतिमाया द्रव्यपूजाहत्वात् , यदंशे सूरिकृत्यत्वं तदंशे सूर्यकृत्यत्वसाधने बाधः, क्रियामात्रे च साधनेशतो बाध इत्याद्यनुमानप्रयोगनिपुणैः स्वयमेव माव्यमितिगाथार्थः ६अथ प्रतिष्ठायां किं सूरिकृत्यं किं च श्रावककृत्यमिति स्पष्टयितुं गाथामाहतत्थवि जमणारंभं जिणभणिअंतमि सूरिअहिगारो। सेसेसु अ अहिगारो गुरूवएसा गिहीणंपि ॥७॥ 'तत्रापि प्रतिष्ठायामपि 'अणारंभं' निरारम्भ क्रियाकाले सचिचानुपयोगि तदपि यद् जिनभणितम् , अनेन विशेषणेन निरारम्भमपि जिनानुपदिष्टं न मोक्षाङ्गमिति ज्ञापितं,हितवचने जिनाज्ञाया एव प्राधान्याद् , यदुक्तं-"आणाइ तवो आणाइ संजमो तहय दाणमाणाए।आणारहिओधम्मो पलालपूलुब्ब पडिहाइ ॥१॥" इति जिनाज्ञामन्तरेण स्वबुद्ध्या सुन्दरमप्यसुन्दरमेव, यदागमः"अप्पागमो किलिस्सइ जइवि करेइ अइदुक्करं तु तवं। सुंदबुद्धीइ कयं बहुयंपि न सुंदरं होई ॥१॥" इतिश्रीउपदे०(४१४)"तंमि"त्ति तस्मिन्निरारम्भ जिनमणिते सूरेः-आचार्यस्योपलक्षणादुपाध्यादेरपि परिग्रहः,तस्याधिकारो जिनाज्ञा,शेषेषु च गुरूपदेशाद्'गृहिणामपि श्रावकाणामपि, उपलक्षणात् श्राविकाणामपि, स्वस्वकृत्येषु अधिकारः, प्रतिष्ठाकल्पोक्तविधिना क्वचित्कृत्येषु श्रावकाणां कचिच्च श्राविकाणामप्यधिकार इत्यर्थः, गुरूपदेशादित्यनेन यादृच्छिकप्रवृत्तिः श्रावकश्राविकाणामपि नोचितेति ज्ञापितं, अन्यथा काणकु| ण्यादयः श्रावकाः श्राविकाच वन्ध्याविधवादयोऽप्यधिकारिण्यो भवेयुः, न च तेषामधिकारः, प्रतिष्ठाकल्पादौ निषिद्धत्वादिति | गाथार्थः ॥७॥ अथ सूरिश्रावकयोरुक्तकृत्यं सव्यक्तं सदृष्टान्तं च विभणिषुर्गाथायुग्ममाह थुइदाण मंतनासो जिणआहवणं तहेव दिसिबंधो । नेत्तुम्मीलण देसण गुरुअहिगारा जिणुवइट्टा ॥८॥ m orialmmmmmmmmmmmmmmunitamin In
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy