________________
'श्रीप्रवचनपरीक्षा
३ विश्रामे
॥१३०॥
विकल्पस्त्वदाश । बल्ली पल्लवनहेतुर्न स्यात्, तस्यापि स हेतुः किं श्रावकोचितकृत्यवर्तीत्यादिविकल्पत्रिकज्वलनज्वालाकलाप कवलितत्वाद्, एवमुपलक्षणसूचितं भावस्तवहेतुत्वादित्यपि पूर्वोक्तविकल्पत्रिककवलितोऽसमर्थ एव४, एतेन चतुर्थगाथायां ' अहवा सावज' ति | पदेन यो द्वितीयो हेतुः सावद्यत्वादिति सोऽपि निरस्तो बोध्यः, सूरिकृत्यांशे सावद्यत्वाभावेन खरूपासिद्धेरिति गाथार्थः ॥ ५ ॥ अथ 'दवमप्पहाणे' त्याद्यनन्तरोक्तगाथाहेतुचतुर्भगी निगदिता, तस्यां यानि दूषणानि तानि सूत्रत एव दर्शयन्नाह -
भंगेसु चउसु भागासिद्धो हेऊ अ सज्झवंझोऽवि । जं देसेणं दुण्हवि अहिगारो इह पइट्ठाए ||६|| चतुर्षु भङ्गेषूक्तलक्षणेषु हेतुर्भागासिद्धः चः पुनः साध्यवन्ध्यश्च - बाधितः, अपिशब्दाद्विवक्षया क्वचिदंशतो बाधो हेतुश्च स्वरूपासिद्ध इत्याद्यपि बोध्यं कुत एवं १ - 'यत्' यस्मादिह-प्रतिष्ठायामध्यक्षसिद्धे प्रतिष्ठाकृत्ये देशेन, न पुनः सर्वथा, द्वयोरपि-सूरिश्रावकयोरप्यधिकारः, हे गौतम ! प्रतिष्ठाविधावेतावत्कृत्यं श्रावककरणार्हमेतावच्च सूरिकरणार्हमित्येवंरूपेण श्रीवीरोपदिष्टत्वादित्य| क्षरार्थः, भावार्थस्त्वयं-जिनप्रतिष्ठा न साधुकृत्यं द्रव्यस्तवत्वादिति कोऽर्थः १ - सारम्भजिनभक्तित्वाच्छ्रावकधर्मान्तर्भूतत्वाद्, उभयथाऽपि श्रावकोचितकृत्यमात्रवर्तित्वेन पक्षैकदेशे वर्त्तमानाद्भागासिद्धः, यथा पक्वाम्रफलं सचित्तपरिहारिणा न भोक्तव्यं, सर्वात्मना जीवप्रदेशैर्व्याप्तित्वात्, जलाग्नी शीतार्त्तेन सेव्यौ उष्णस्पर्शाधिकणत्वाच्चेत्यादयो भागासिद्धा हेतवः, तथा प्रतिष्ठायां श्रावकवद्देशतः | साधोरप्यधिकारात् साधुकृत्यत्वमपि सिद्धान्तसिद्धं, तथा च सति तदभावसाधने बाघ एव, 'धम्मिग्राहकप्रमाणेनावधृते साध्ये तदभावसाधने बाध एवे ' तिवचनात् यदा च द्रव्यस्तवत्वं नाम द्रव्यपूजात्वमितिविवक्ष्यते तदा स्वरूपासिद्धो हेतुः स्यात्, नहि प्रतिष्ठा द्रव्यपूजोच्यते, प्रतिष्ठामहसि जिनपूजाऽद्य क्रियते इति लोकव्यवहारस्याप्यभावात्, प्रतिष्ठितानां पूजाभिप्रायेण कुसुमा
श्रावकप्रतिष्ठाप्रतिषेधः
॥१३०॥