________________
श्रीप्रवपरीक्षा ३ विश्रामे
॥१२९ ॥
जिणपडिमाणं पढमपइट्ठाणं करेह' इत्यादीनि कल्पचूर्ण्यादिवचनानि तथाऽन्यान्यपि च स्थानककथाकोशकल्याणकप्रकर| णोपमितिभवप्रपञ्चादिसंबंधीनि कुपाक्षिकतिलकतिलकाचार्येण स्वमतिविकल्पितप्रतिष्ठाकल्पे मुग्धजन भ्रान्तिजनकान्युद्भावि| तानि तानि निरस्तानीति बोध्यम्, उक्तयुक्तेः सर्वत्राप्यवतारात्, क्वचिच्चान्यथाभिप्रायेण चूर्ण्यादिषु विद्यमानस्यान्यथामिप्रायवता तिलकाचार्येण विलल्पितस्य द्रव्यस्तवत्वादितिहेतोरप्रधानभक्तित्वादिति प्रथमो विकल्पञ्चन्द्रप्रभाचार्यस्य पाशकल्पः संपन्न इति प्रदर्शितं १, | अथ जिनप्रतिष्ठा न साधुकृत्यमप्रधानधर्मत्वादिति द्वितीयो विकल्पचेत्तत्रापि धर्मेऽप्राधान्यं किं जिनानुपदिष्टत्वमित्यादिप्रथम विक| ल्पोद्भावित विकल्पजालकवलितत्वादकिंचित्कर एव २, अथ जिनप्रतिष्ठा न साधुकृत्यं द्रविणजिनभक्तित्वादितितृतीयो विकल्पश्रेत्सोऽप्ययुक्तः, तथाहि - द्रविणेन - सौवर्णिकादिधनेनार्थात् द्रविणलभ्येन स्रक्चन्दनादिपूजोपयोगिवस्तुजातेन जिनभक्तिः सा | द्रविणजिनभक्तिस्तस्या भावो द्रविणजिनभक्तित्वं तस्मात् द्रविणजिनभक्तित्वादितिहेतुः संपन्नः, स हेतुः प्रतिष्ठालक्षणे पक्षे वर्त्त - मानः किं श्रावकोचितकृत्यमात्रवर्त्ती निगद्यते उताचार्योचितकृत्यमात्रवर्त्ती वा उभयकृत्यवर्त्ती वा १, नाद्यः, सिद्धसाधनात् प्रतिष्ठायां देशेन श्रावकोचितकृत्येषु सूरिकृत्यत्वानभ्युपगमात्, द्वितीये स्तुतिदानादिषु षट्सु सूरिकृत्यत्वेन सिद्धान्तसिद्धेषु सूरिकृत्यत्वाभावसाधने स्फुट एव बाधः, हेतुश्च तदंशे शब्दे चाक्षुषमिव स्वरूपासिद्धः, स्तुतिदानादिषु सूरिकृत्येषु द्रविणजिनभक्तित्वाभावात्, तृतीये हेतोर्भागासिद्धिरंशतो बाधश्च यतः प्रतिष्ठोपयोगिकृत्यमात्रवर्तीतिहेतुरुच्यमानः सूरिकृत्येष्ववर्ती भागेनासिद्धः, तदंशे | सूरिकृत्यत्वाभावोऽपि साधयितुं शक्यते, तदभावस्य साधुकृत्यत्वस्य सिद्धान्तसिद्धत्वात्, सिद्धान्तसिद्धे वस्तुनि तदभावसाध नायानुमानस्याप्रवृत्तेरिति द्रविणजिनभक्तित्वादितितृतीयोऽपि विकल्पोऽकिश्चित्कर एवेति ३, एवं द्रविणधर्मत्वादिति चतुर्थोऽपि
श्रावकप्रतिष्ठाप्रतिषेधः
॥ १२९ ॥