________________
श्रीप्रव
श्रावकातिष्ठाप्रतिषेधः
a
चनपरीक्षा ३विश्रामे ॥१२८॥
Areamm
द्रतादिकं श्रावकः प्रतिपद्यते यत्र वा शासनदेवतापितलिङ्गः प्रत्येकबद्धादिश्चारित्रं प्रतिपद्यते कथं तत्र वासनिक्षेपादिसरिकृत्यमिति चेत्सत्यम् , आचार्याद्यभावे कारणवशात् स्वयमेव व्रतादिकं प्रतिपद्यमानः परलोकाराधको भवति, न पुनस्तथा शासनप्रवृत्तिः, तस्याश्चागमोक्तसूरिसापेक्षत्वाद् , अत एव कारणिकतथाविधचरितानुपतितदमयन्तीतिलकमञ्जरीनर्मदासुन्दरीदृष्टान्तेनागमोक्तविधिं परिहरन् मुखशेखरो भण्यते, न हि चरितानुवादमनुमत्य विधिवादः प्रवर्तते, तथा प्रवर्तने च श्रीवीरदृष्टान्तेन जीवतोर्मातापित्रोः पुत्रस्य प्रव्रज्या अग्राह्या स्यात् , श्रीगौतमदृष्टान्तेन कौतुकविलोकननिमित्तमेकाकिनाऽप्याचार्येण राजान्तःपुरे गमनमेकाकिन्या च राज्या सह विजनप्रदेशे च संचरणं कर्त्तव्यं स्यात , श्रीस्थूलभद्रदृष्टान्तेन वेश्यागृहे चतुर्मासककरणं न दोषभाग् भवेत् , अतिमुक्तदृष्टान्तेन मृत्तिकापालिनिरुद्धजले पतद्ग्रहप्लावनं क्षुल्लकैः कर्त्तव्यं स्यात् , तथा च प्रवचनमर्यादा दत्ताञ्जलितामापद्येत, तस्माच्चरितानुवादेन न विधिः प्रवर्तनीयः, किंच-यदिदं दमयन्त्यादिचरितानुवादमधिकृत्य प्रवर्त्यते तदा प्रतिष्ठाकृत्यं श्राविकाया एवोपपद्यते, न पुनः श्रावकस्यापि, तत्रापि लग्नशुद्ध्याद्यन्वेषणं वेदिकायवारकादिकरणमप्युच्छिन्नसंकथं भवेत् , ननु श्रावकस्यापि क्वापि प्रतिष्ठाकृत्यमुक्तमस्ति, यदुक्तं-"न पइट्ठा तस्स कया दाणं दाऊण सयलसंघस्स । तेणेव दुक्खभारो भवे भवे होइ अइगुरुओ॥१॥" इति स्तवने इति चेत्सत्यं,प्रतिष्ठायां प्रागुक्तयुक्त्या कथंचित् श्रावकस्यापि तत्कर्तृव्यवहारस्याविरुद्धत्वाद्, यथा सम्यक्त्वमूलद्वादशवतानि श्रावकेणोचरितानीति, एवं सत्यपि यदि स्तवनवचोमात्रमवलम्ब्य श्रावकप्रतिष्ठाव्यवस्थापनसमीहा स्यात् तर्हि "नमिविनमिकुलान्वयिभिर्विद्याधरनामकालकाचायः। काशहदाख्ये नगरे प्रतिष्ठितो जयति जिनवृषभ ॥१॥” इति स्तपनवचनात्सरिप्रतिष्ठाऽपि कथं न समीयते ?, तस्मात कथंचिच्छावककृत्यत्वमपि प्रतिष्ठाया न विरुद्धम् । एतेन 'कोइ सावगो
HBHIHIRRIGATINAMAnimum IPARAN
M
ditional
a
Adama malnirmaim
oHANIHINimmimi
॥१२८॥