SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ श्रावकातिष्ठाप्रतिषेधः श्रीप्रवचनपरीक्षा ३विश्रामे ॥१२७॥ Mamme न हि चूर्णिकारं प्रमाणतयाऽभ्युपगम्य चूर्णिकारेण प्रमाणीकृते पुरुष प्रामाण्याभावं वक्तुं शक्यते,अथ श्रीसिद्धसेनश्रीहरिभद्र| सूरिप्रभृतिभिरेव कृता अमी प्रतिष्ठाकल्पा इति नास्माकं सम्यगास्थेतिचेत्तर्हि संप्रत्यङ्गोपाङ्गनियुक्त्यादिकमपि श्रीसुधर्मस्वाम्यादिकृतमिति कथमास्थेति, युक्तः समानत्वाद्, अथ प्रतिष्ठाकल्पोक्तो विधिः क्वापि नोपलभ्यतेऽतो नास्थेतिचेत्तर्हि प्रतिष्ठैव नाङ्गीकर्तव्या, अनुपलब्धस्याप्यङ्गीकारे शशविषाणस्याप्यङ्गीकारापत्तेः, अथ नाममात्रेण प्रतिष्ठा सिद्धान्ते समुपलभ्यते, यदुक्तं-"निअदामपुवजिणिंदभवणजिणबिंबवरपइट्ठासु । विअरइ य पत्थपुत्थय सुतित्थतित्थयरपूआसु ॥१॥"(२७-३०६) इतिश्रीभक्तप्रकीर्णके इति चेत्तहिनाममात्रेणैव प्रतिष्ठा श्रद्धेया तथैवोपलम्भात् ,न पुनर्वेदिकायवारकाष्टादशस्नात्रादिविधिरपि,तस्य क्वाप्यनुपलम्भाद् ,अथ प्रतिष्ठाकल्पे स विधिरुपलभ्यते इति चेदलं विवादेन, तेषु सूरेरेव पद कृत्यान्युक्तानि, एवमुक्तयुक्त्या श्रावकधर्मान्तर्भूताया अपि प्रतिष्ठायाः साधुसापेक्षत्वे सिद्धे न किञ्चिदनुपपन्न, यतो यथा श्रावकधर्मपि सम्यक्त्वमूलद्वादशवतोचारे प्रतिमायुच्चारे च अह| णं भंते ! इत्यादिर्यावद्वासनिक्षेपादिकं साधुकृत्यं सङ्घभक्त्यादिकं च श्रावककृत्यं तथा प्रतिष्ठायामपि 'थुइदाण१ मन्तनासोर' इ त्यादीनि षट् कृत्यानि मूरिसंवन्धीनि शेषमशेषं तु द्रव्यव्ययादिसाध्यं सचित्तजलफलपुष्पादिसाध्यं च श्रावककृत्यमेव,तथा चैकस्या | अपि प्रतिष्ठायाः क्वचिदंशे साधुकृत्यत्वेन साधुधर्मान्तर्भूतत्वं क्वचिदंशे श्रावककृत्यत्वेन श्रावकधर्मान्तर्भूतत्वं चेत्युभयमपि न विरु| ध्यते, तथा चानुमाने बाधः स्फुट एव, साधुकृत्यत्वेन सिद्धेऽपि प्रतिष्ठाकृत्ये तदभाव साधनात् , न चैकस्य कार्यस्योभयस्वभावत्वं कथं संभवतीति शङ्कनीयम्-एकस्मिन्नेव पुत्रे मातृपुत्रीत्वपितृपुत्रत्वयोरिवाध्यक्षसिद्धत्वाद् , अत एव ऋषभदेवस्य नाभेयो मारुदेवश्चेत्यभिधानद्वयमप्यविरुद्धं, ननु यदि कदाचिदाचार्यादिमामय्यभावे तीर्थकृदभिमुखीभूय तीर्थकृत्प्रतिमां वा पुरस्कृत्य किंचि- MARITERARITAHARIRITAININHIMIRELI ॥२७॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy