________________
श्रावकातिष्ठाप्रतिषेधः
श्रीप्रवचनपरीक्षा ३विश्रामे ॥१२६॥
Filemmammumtamansamala wamiRImALUMARRIALISAPANINE MAPartARITANIUMPERIALIR
सूरिः, परं ज्ञायते त्वया भगवतः कोऽप्यपराधस्तथा कृतो येन भगवता सर्वथा दूरीकृतः, किंच-भो चन्द्रप्रभाचार्य ! यदि तुभ्य- मेवं रोचते तर्हि स्थापनाचार्यप्रतिष्ठायां शिष्यप्रव्राजने सूरिपददाने च वासक्षेपं श्रावक एव करोतु, अन्यथाऽर्द्धजरतीयन्यायमनुसरतस्तव महति संकटे पतनं स्यात् , अथ श्रावकप्रतिष्ठितस्थापनाचार्यस्य पुरस्तात् साधूनां प्रतिक्रमणादिकाः क्रियाःन शुद्ध्यन्ति श्रावकवासक्षेपेण च शिष्यः साधुः सूरिश्च न स्यात् , तर्हि श्रावकप्रतिष्ठितायाः प्रतिमायाः पुरस्तात्कथमीर्याप्रतिक्रान्तिपुरस्सरं देव| वन्दनादिकाः क्रियाः साधवः कुर्युः ?, कथं वा श्रावकप्रतिष्ठिता प्रतिमा तीर्थकरकल्पा भवेदित्याद्यपि किं न पर्यालोचयसि ?, ननु | शिष्यमस्तके वासनिक्षेपः सिद्धान्ते भणितः, यदागमः-"खइअंमि वट्टमाणस्स निग्गयं भगवओ जिणवरिंदस्स । भावे खओवसमिए | वट्टमाणेहिं तो गहिरं ॥१॥" श्रीआव०नि० (३-७३५) एतच्चूर्णियथा-ततो भगवं अणुण्णं मणसीकरेइ, ताहे सक्को वयरामए थाले दिवगंधगंधिकाणि चुण्णाणि छोढण सामि उवगतो, ताहे सामी सीहासणाओ उद्वित्ता पडिपुण्णं मुठिं केसराणं गेण्हति, ताहे गोअमसामिप्पमुहा इक्कारसवि गणहरा ईसीओणया परिवाडिए ठंति, ताहे देवा आउजगीअसई नि भंति, पुवं तित्थं गोअमसामिस्स दवेहिं गुणेहिं पञ्जवेहिं अणुजाणामित्ति चुण्णाणि सीसे छुभति, ततो देवताणिवि चुण्णवासं च पुष्फवासं च वासंति, गणं च सुहम्मसामिस्स धुरे ठावेत्ताणं अणुजाणेति'त्ति श्रीआवश्यकचूर्णी ४६४ संख्ये पुस्तके१८० पत्रे इतिचेत् तर्हि प्रतिष्ठायामपि समानं,श्रीसिद्धसेनश्रीहरिभद्रोमास्वातिवाचकप्रभृतिमहापुरुषप्रकृतप्रतिष्ठाकल्पादिषु सूरिकृत्यत्वेनैव वा| सनिक्षेपादेरुक्तत्वाद् , अथास्माकं चूर्णिरेव प्रमाणं, न पुनः प्रतिष्ठाकल्पादिरिति चेत्तर्हि चूर्णिकारस्य प्रतिष्ठाकल्पकर्तारः सम्मता असम्मता वा?, नान्त्योऽसम्मतत्वाद् , आधे सुतरां प्रतिष्ठाकल्पानां प्रामाण्यं सिद्ध्यति, अन्यथा माता मे वन्ध्येति न्यायः संपद्यते,
IRAL
॥१२६||