________________
श्रीप्रवचनपरीक्षा ३विश्रामे ॥१२५॥
नन्दिसत्रश्रवणनिमित्तं सप्तविंशत्युच्छ्वासमानं कायोत्सर्ग विधाय नन्दिसूत्रस्थाने नमस्कारत्रयं गुरुमुखाच्छृणोति, श्रुत्वा च गुरु-|
श्रावकपतिमुखेन सम्यक्त्वं द्वादश व्रतानि चोच्चरति, गुरुरपि श्रावकमस्तके वर्द्धमानाभिमुष्टिभिर्वासनिक्षेपं कुर्वन् 'अहन्नं भंते ! तुम्हाण समीवे ष्टाप्रतिषेधः मिच्छत्ताओ पडिकमामी' त्याद्यालापकादिश्रावणेनोच्चारयति, तदनु सप्त क्षमाश्रमणानि, नन्दि प्रदक्षिणयतश्च श्रावकस्य मस्तके सरिर्वद्धमानाभिर्मष्टिभिर्वासनिक्षेपं करोति, श्रावकोऽप्यात्मानं कृतार्थ धन्यं च मन्यमानस्तं वासं प्रतीच्छति, ततो गुरुमुखेन यथाशक्त्युपवासादितपः करोति, सूरिश्वतं पुरस्कृत्य श्रावकधर्मोपबृंहणानिमित्तं तदुत्साहपरां धर्मदेशनां विदधाति, ततः श्रावकस्तीणोंऽहं संसारसमुद्रमित्याद्यात्मानं मन्यमानो यथाशक्ति सङ्घपूजामातोद्यादि श्रावकश्रावकश्राविकादीनां यथोचितद्रविणदानं च सङ्घसमे| तश्चैत्यपरिपाटिमपि विदधाति, किंबहुना ?, यथा यथा प्रवचनप्रभावना भवति तथा तथा प्रवर्तते, एवमेकादशोपासकप्रतिमाप्रति| पत्तिरपि भावनीया, आस्तामन्यत् , नमस्कारसहितप्रत्याख्यानघटिकाद्वयमानसामायिकाद्युच्चरन्नपि गुरुसाक्षिकं गुरुमुखेनैवोच्चरति, किमङ्ग पुनः प्रतिष्ठा साधुनिरपेक्षेति, ननु कुसुमादिभिर्जिनपूजा साधुनिरपेक्षैव दृश्यते, तथा प्रतिष्ठाऽप्यास्तामिति चेत् तहि पक्षिकादिकपौषधकरणं नन्दिवासादिनिरपेक्षं दृश्यते तद्वत्सम्यक्त्वपूर्वकद्वादशवतोचारोऽप्यास्तां, युक्तेस्तौल्यात् , तस्माद्धर्माष्ठानमात्रे सदृश एव कारणादिविधिर्नान्वेषणीयः,किंतु परम्परागमानुसारेण यथाऽऽम्नायं कस्यचित् क्वचित् क्वचिदपेक्षाऽनपेक्षा वाऽभ्युपगन्तव्या, तेन कुसुमादिद्रव्यपूजाविधौ गुरूपदेशपूर्वकत्वेनैव गुरुसापेक्षत्वमभ्युपेयम् , एवमन्यत्रापि यथासंभवमायोज्यं, किंच-तवा|भिप्रायेण द्रवस्तवसाम्येऽपि श्रावकेण किमुपकृतं यत्सम्यक्त्वाद्युच्चारसमये श्रावकमस्तके वासक्षेपं तत्कर्णयोः सूत्रालापकश्रावणं । सूरिरेव करोति, तीर्थकृता च किमपराद्धं यत्रैलोक्यपूज्यायामपि तत्प्रतिमायां वासक्षेपमन्त्रन्यासं श्रावक एवं करोति, न पुनः
५
॥