SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ३ विश्रामे ॥१२२॥ तद्वाधिकैव वर्णावल्युपलभ्यते, नापि द्वितीयः, क्वाप्यागमे अमुकश्रावकेण प्रतिष्ठा कृतेत्यनुपलब्धेः प्रत्युत “थुइदाण १ मंतनासो२ जिण आहवणं ३ तहेव दिसिबंध ४ । नेत्तुम्मीलण५ देसण ६ गुरुअहिगारा इहं कप्पे || १||" इति श्रीपादलिप्तसूरिवचः, तथा-रूप्यकचोलकस्थेन, शुचिना मधुसर्पिषा । स नेत्रोन्मीलनं कुर्यात्सूरिः खर्णशलाकये ||१|| ति श्रीउमास्वातिवाचकवचः, तथा "सदसेण धवलवत्थेण वेढिअं वासधूववत्थेहिं । अभिमंतिउं तिवारं सूरिणा सूरिमंतेणं ॥ २॥ इत्यार्यश्रीसमुद्राचार्यवचः, तथा " तो इट्ठे संपत्ते हेमसिलागाइमंत विहिपुढं । जिणनेत्तुम्मीलणयं करेअ वण्णे निसंतत्थो || १ || अच्छीनिलाडसंधिसु हिअएविअ सिरपयाइ एवण्णे । | रययस्स वडिआए गहिअमहू थिरमणी सूरी || २ || इति श्री हरिभद्रसूरिवचः, तथा - विहिवयणं च पमाणं सुत्तुत्तं जेण ठावणागुरुणो । कआ जिणविंवाणं तं च सविसयं हवइ करणे ॥ १ ॥ इति श्रीहरिभद्रसूरिवचः, इत्यादिप्रवचनप्रमाणपुरुषविरचितस्वस्वप्र| तिष्ठा कल्पादिवचांसि त्वदुक्तवचोबाधकान्येवोपलभ्यन्ते, नापि तृतीयः, पूर्वं श्रावकप्रतिष्ठाऽऽसीत् कियता कालेन चैत्यवासिभिः साधुप्रतिष्ठा व्यवस्थापितेति तीर्थप्रवादानुपलब्धेः प्रत्युत श्रीशत्रुञ्जयमाहात्म्य श्री महावीरचरित्रादौ श्रीशत्रञ्जयाष्टापदादिषु श्रीनाभसूरि कपिलकेवलिप्रभृतिसाधुभिः प्रतिष्ठा कृतेत्येवं प्रवाद उपलभ्यते, इत्यादिप्राञ्जलयुक्तिलेशेनापि तिरस्कर्त्तव्या चन्द्रप्रभाचार्ये सत्यपि यावत्तदुद्भावितानुमानाभासादिरचना तत्प्रतिपक्षभूतैरनुमानादिभिर्न निराक्रियते तावत्केषाञ्चिन्मुग्धानां दुविंद - ग्धानां च शङ्कापिशाचीपराभूतिर्नापैतीति विचिन्त्य तत्पराकरणायोपक्रम्यते, तथाहि -प्रतिष्ठा न साधुकृत्यं, द्रव्यस्तवत्वात्, कुसुमादिना | जिनपूजावदितिप्रथमानुमाने द्रव्यस्तत्वादिति पदद्वयात्मकस्य हेतोद्वयोरपि शब्दयोर्वैकल्पिकपर्यायानुद्भाव्य दूषयितुं गाथामाह'अंगारमदओ दबायरिओ सयाऽभवो' ति वचनात् 'द्युम्नं द्रव्यमृकथ' मित्यादिवचनाच्च द्रव्यं किमप्रधानमुत द्रविणं चेति श्रावकप्रतिष्ठानिषेधः ॥१२२॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy