________________
बीप्रवबनपरीक्षा ३विश्रामे ॥१२॥
जिणपडिमाण पइट्टा न साहुकजं तु दवथयभावा । अहवा सावजत्ता कुसुमेहि जिर्णिदपूयव ।।४।। श्रावकाति
जिनप्रतिमाप्रतिष्ठेतिपक्षः, न साधुकार्यमिति साध्यं, तुशब्दात् श्रावकेणैव कार्यमिति द्वितीयमपि साध्यं बोध्यं, द्रव्यस्तव- ष्ठानिषेधः | भावात्-द्रव्यस्तवत्वात् सावद्यत्वाञ्चेति हेतुद्वयम् , अत्र सावद्यत्वादितिहेतुर्न चन्द्रप्रभाचार्योद्भावितः, किंतु तिलकाचार्योद्भावितः, |तिलकाचार्यस्तु तदन्वयीतिकृत्वा प्रसङ्गतोऽत्र लिखितोऽपि हेतुः 'तिलगो कुवनखतिलगो'त्ति त्रयस्त्रिंशत्तगाथात आरम्य निराकरिष्यते, कुसुमैजिनेन्द्रपूजेवेति दृष्टान्त इतिगाथार्थः ।।४।। दवमपहाण दविणं थओवि जिणभत्ति धम्ममित्तं वा । दूसइ न किंचि किच्चं मुणिउचिअपइकिच्चेसु ॥५॥
अथ स एव तावदित्थं प्रष्टव्यः-भो चन्द्रप्रभाचार्य ! अद्य यावदच्छिन्नं तीर्थमासीत् न वा!, नेति वक्तुमशक्यत्वेनासीदित्येव । वक्तव्यं, तच्च तीर्थ साधुप्रतिष्ठामाश्रितमुत श्रावकप्रतिष्ठा वा ?, यदि साधुप्रतिष्ठामिति ब्रूषे तर्हि किं त्वं तीर्थवाह्यभवनेनात्मानं क्लेशयसि ?, अथ पूर्वमविधिरेवासीदितिचेत् तर्हि विधिं कुर्वाणोऽपि त्वमच्छिन्नपरम्परायाततीर्थवाद्यः संपन्न इति विधेरिहैवैतत्कलं प्राप्त, परत्रास्माद्विधेः किं फलं भावीति खयमेव किमिति न पर्यालोचयसि ?, अथ पूर्व श्रावकप्रतिष्ठेवासीत् ,परं कियता कालेन चैत्यवासिमिः साधुप्रतिष्ठा व्यवस्थापितेति चेत् तर्हि एतद्वचनं त्वयैवाप्तेनोक्तमस्माभिः श्रद्धेयं उत तब्यञ्जकमन्यत्किमप्यस्ति ?, आब| पक्षे दिव्यकरणमन्तरेण त्वय्याप्तत्वमेव को गईमीक्षीरपायी श्रद्दधातीति पल्लवमादाय दर्श्यतां, द्वितीये तब्यञ्जकं त्वदुत्पत्तेः पूर्व प्रतिष्ठितासु प्रतिमासु अमुकेन श्रावकेणेयं प्रतिमा प्रतिष्ठितेत्यादिवर्णावली उतागमो वा आप्तजनप्रवादो वा', नायः, कस्खामपि प्रतिमायां तथावर्णावल्या अनुपलब्धेः, परं यत्र कापि जीर्णप्रतिमासु वर्णावली तत्रामुकमरिमिः प्रतिष्ठितममुकविम्मामित्यादिरूपेण ॥१२॥