________________
पौर्णिमीयकोत्पत्तिः
श्रीप्रवचनपरीक्षा ३विश्रामे ॥१२०॥
लीकरणाय प्रात
नमतिः सन् प्रतिष्ठा साधोः कृत्यं न भवति,किंतु श्रावककृत्यमिति भणति, किं कुर्वन् ?-भो लोकाः! प्रतिष्ठा द्रव्यस्तव इति युक्ति | जल्पन महाशब्देन, बाढस्वरेणेत्यक्षरार्थः ॥ | भावार्थस्त्वयं-तदानीं किल राजश्रीकर्णवारके श्रीचन्द्रप्रभसूरिः श्रीमुनिचन्द्रमूरिः श्रीमान् देवमूरिः श्रीशान्तिमूरिश्चेति चत्वारोऽप्येकगुरुशिष्याश्चारित्रिणोऽभूवन् , तेषां मध्ये समधिकज्ञानादिगुणैः सर्वजनपदविख्यातः श्रीमुनिचन्द्रसूरिः, अन्यढ़ा श्रीधरनामा कश्चिन्महर्द्धिकः श्रावको बहुवित्तव्ययेन महामहःपूर्व श्रीजिनेन्द्रप्रतिमा प्रतितिष्ठापयिषुवृद्धत्वात् श्रीचन्द्रप्रभाचार्य प्रति मोक्तवान्-भोः पूज्या ! मदीयमनोरथसफलीकरणाय प्रतिष्ठाकृते श्रीमुनिचन्द्रसूरीनाज्ञापयतेति, महान्तमुपरोधं च कृतवान् , | चन्द्रप्रभाचार्यश्चिन्तितवान-मयि वृद्धे सत्यपि कथं श्रीमुनिचन्द्रसूरिः प्रतिष्ठां करोतीत्यभिमानत्यागाक्षमः तन्महोत्सवविध्वंसनाय | भो चतुरश्रावक ! विधिना प्रतिष्टां कुरु, न ह्यागमे साधोः प्रतिष्ठाकृत्यमुक्तं, किंतु द्रव्यस्तवत्वेन श्रावकस्यैव युक्तमित्यादियुक्त्या | वि० सं० ११४९ वर्षे श्रावकप्रतिष्ठा प्ररूपिता, सङ्घनाप्युपेक्ष्य तिरस्कृताः, तत एकाकीत्यसौ कारणेऽपि पततीति विचिन्त्य श्रीमुनिचन्द्रमूरिमत्सरेण मतभेदकरणाय सं० ११५९ वर्षे अद्य रात्रौ मम पद्मावत्या आगत्योक्त-श्रावकप्रतिष्ठा पूर्णिमापाक्षिकं चेत्यनादिसिद्धं त्वं प्ररूपयेति वचसा मया पूर्णिमापाक्षिकं करिष्यते, द्वितीया पूर्णिमा प्रकाशिता, ततः श्रीसङ्घन प्रवचनोपघातकं वचनं मा बृहीत्याक्रोशितोऽपि प्रत्युक्तवान्-यदि पद्मावत्योक्तं न प्रमाणीक्रियते तर्हि सा मयि कुप्यतीति वचसा सङ्घोक्तमप्रतिपद्यमानोऽसावभिनिवेशीतिकृत्वा सङ्घबाह्यः कृत इति व्यतिकरवान् चन्द्रप्रभाचार्यों मत्सरेण प्रथमं श्रावकप्रतिष्ठां प्ररूपितवानिति | गाथाद्वयार्थः ।। २-३ ॥ अथ चन्द्रप्रभाचार्योद्भावितानुमानप्रयोगघटितां गाथामाह
mamlinging
प्रतिष्ठां करातात्वेन श्रावक
RPAINILIOPHILE
॥१२०॥