________________
पौर्णिमीयकोत्पत्ति
श्रीप्रवचनपरीक्षा ३विश्रामे ॥११९॥
I NIROINATING
अथ पौर्णिमीयमतनिरसनस्तृतीयो विश्रामः अथ पौर्णिमीयकमतं विभणिषुः किनामा पौर्णिमीयकमताकर्षकः कस्मात् गणात् कस्मिन् संवत्सरे किंनिमित्ताभिर्गत इतिज्ञापनाय गाथामाह
अह चंदप्पहसूरिप्पभवं पुण्णिममयं वडगणाओ। एगारइगुणसट्ठीवरिसे गुरुबंधुऽमरिसेणं ॥१॥ __'अथे' ति बोटिकवक्तव्यतानन्तरं क्रमप्राप्तं चोटिकोत्पत्तेर्भूयसा कालेनापि विद्यमानापत्यकमिदमेव जातमिति गम्य, किंलक्षणम्। 'चन्द्रप्रभसूरिप्रभवं' चन्द्रप्रभाचार्यात्समुत्थम् , अनेन विशेषणेन तन्मताकर्षकश्चन्द्रप्रभसूरिः प्रदर्शितः, 'वटगच्छात्' वृहद्गच्छानि
र्गत इति निर्गमगणोऽपि दर्शितः, कस्मिन् संवत्सरे ?-'एकादशैकोनषष्टिवर्षे एकोनषष्टयधिकैकादशशतवर्षातिक्रमेाद्विक्रमसंव|त्सरतः, अनेनोत्पत्तिसंवत्सरः प्रदर्शितः, केन हेतुना ?--'गुरुबन्ध्वमर्षण' गुरुबन्धुः-श्रीमुनिचन्द्रसूरिस्तस्यामर्षेण-मत्सरेणेति गणानिर्गमहेतुः सूचित इतिगाथार्थः ।।१।। अथामर्षकारणप्रदर्शनाय गाथाद्वयमाहगुरुभाया मुणिचंदो संविग्गो आसि सूरिपयपत्तो। कस्सइ तेण पइटुं करिजमाणं सुणिअ रुसिओ॥२॥
तम्महविद्धंसमई भणइ पइट्ठा न साहुणो किचं । दवत्थओत्तिजुत्तिं जपंत महंतसद्देण ॥३॥ युग्मं चंद्रप्रभाचार्यस्य गुरुभ्राता-सतीर्थ्यः आचाम्लादितपोऽनुष्ठानकष्टेन संविग्नो बहुश्रुतो गणनायकतां प्राप्तः श्रीमुनिचन्द्रमरिरासीत , तेन कस्यचिन्महर्द्धिकस्य श्राद्धस्य प्रतिष्ठां क्रियमाणां श्रुत्वा रुष्टः-क्रोधाविष्टश्चन्द्रप्रभाचार्यः तस्याः प्रतिष्ठाया महोत्सवविध्वंस
TRIBAIRATRILIBRAHIRIRI HIMPIRI
MISHRIRATRA
D HIRIMARITAPAIKINNAR
॥११९॥
IMAAMIR