SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा २विश्रामे ॥ ११८ ॥ दिरूपग्रहणशक्तिस्तेन रहितो - विकलः प्रथमो दिगम्बरः कथितः, अयं भावः - उदिते हि सहस्रकिरणे यथा कौशिको निजचक्षुःप्रभावरहितो भवति, अयं हि जगत्स्वभावो यत्तामसशकुनिकुलस्य सूर्यकिरणा अतिश्यामतया भासन्ते, यदाह श्रीसिद्धसेनदिवाकरः- “सद्धर्म्मबीजवपनानघकौशलस्य, यल्लोकबान्धव ! तवापि खिलान्यभूवन् । तन्नाद्भुतं खगकुलेष्विह तामसेषु, सूर्यांशवो मधुकरीचरणावदाताः ॥ १॥” इति, तथा कुपक्षकौशिकसहस्रकिरणसंज्ञितेऽस्मिन् प्रकरणे कुपक्षाणां पुरस्तादुद्भाविते कुपाक्षिकविशेषो दिगम्बरः निजचक्षुः- कुश्रद्धानरूपा कुदृष्टिस्तत्प्रभावरहितो भवति, तस्य स्वमतिकल्पिताः कुयुक्तयो न स्फुरन्ति, अथवा कुदृष्टिरेव सुदृष्टिर्भवति, एवंविधो दिगम्बरः कथित इति गाथार्थः ॥ ७३ ॥ अथायं दिगम्बरः कस्मिन् संवत्सरे कस्मिन् गुरौ विद्यमाने | सति कथित इति प्रदर्शनाय गाथामाह नवहृत्थकायरायंकिअसममहिममि चित्तसिअपकखे । गुरुदेवयपुण्णुदए सिरिहीरविजय सुगुरुवारे ||७४॥ | इअ सासणउदयगिरिं जिणभासिअधम्म सायराणुगयं । पाविअ पभासयंतो सहस्सकिरणो जयउ एसो ॥ ७५ ॥ ||७४॥ अथैतत्प्रकरणकर्तृनामगर्भितामाशीरभिधायिकां गाथामाह- इअ सा० व्याख्या प्राग्वत् ॥७५॥ | इअ कुकूखकोसिअसहस्स किरणंमि पवयणपरिग्वावरनामंमि दिगंबर निराकरणनामो बीओ वीसामो सम्मत्तो =========================0 इति श्रीमत्तपागणन भोन भोमणिश्रीहीरविजय सूरीश्वर शिष्योपाध्यायश्रीधर्मसागरगणि-1 विरचितस्वोपज्ञकुपक्षकौशिकसहस्रकिरणे श्रीहीरविजयसूरिदत्तप्रवचनपरीक्षा परनाम्नि प्रकरणे दिगम्बर निराकरणनामा द्वितीयो विश्रामो विख्यातः (ग्रंथ १००० ) XXXXXXXXXXXXXXXXX ग्रन्थमहिमा ॥ ११८ ॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy