________________
"गिरिनारि
बादः
श्रीप्रबचनपरीक्षा २विश्रामे ॥११७॥
| पल्लवचिह
भयेषां-श्वेताम्बरदिगम्बराणां भेदो-भिन्नत्वं 'न संभूतो' नासीत् , सदृश आकार आसीदितिगाथार्थः ॥७०॥ अथ बोटिकमतस्वरूपं तत्प्ररूपणापूर्वकनिराकरणे हेतुं च दर्शयन् गाथाद्वयेनोपसंहारमाह
एअंबोडिअकुमयं पडिअंतित्थाउ दूरतरदेसे। णो तित्थं बाहेई वणगिरिअग्गी जहा नयरं ॥७१।। तहविअ पवट्टमाणं विवायहेउत्ति मुणिअ भणिअंति । थूलमईणं एसा जुत्तिदिसा दंसिआ णेआ॥७२॥ | यद्यप्येतद्बोटिककुमतं प्रवचनलिङ्गाभ्यां सर्वथा साधाभावेन शाक्यादिवत्तीर्थाद्दरतरदेशे पतितं, न बाधते तीर्थ, यथा राकौ|ष्टिकादयस्तीर्थान्तवर्तिनां श्राद्धादीनां शङ्कोत्पादकत्वेन तीर्थवाधाकारिणो न तथाऽयं दिगम्बर इति, तत्र दृष्टान्तमाह-यथा 'वन| गिर्यग्निः' अरण्यपर्वतवर्तिवनिर्न नगरं बाधते, दूरतरवर्तित्वात् , प्रत्यासन्नस्तु प्राकृतजनतृणकुटी ज्वालयन बाधते, तर्हि किम| र्थमेतन्मतप्ररूपणं कृतमित्याशङ्कामपाकरोति-तहवित्ति तथापि च प्रवर्त्तमान-विद्यमानमेतत् , न पुनर्जमाल्यादिवनिःसत्ता
कीभूतम् , अत एव कदाचिद्विवादहेतुर्भवतीतिज्ञात्वा भणितमिति न दोषः, अथ विवादे समुत्पन्ने एतावद्भणनेन किं स्यादित्याह| 'थूलमईणं ति स्थूलमतीनां-मत्तोऽप्यल्पमतीनां न पुनर्धर्मसंग्रहणीविशेषावश्यकादिवृत्तिनिष्णातमतीनां विदुषामपि एस'त्ति एषा युक्तिदिशा दर्शिता ज्ञेया-ज्ञातव्या, स्थूलमतिभिरनया युक्तिदिशा ननाटास्तिरस्करणीया इति गाथायुग्मार्थः ॥७१-७२।। अथाधिकारोपसंहारमाहएवं कुवक्खकोसिअसहस्सकिरणंमि उदयमावण्णे | चक्खुप्पहावरहिओ कहिओअ.दिअंबरो पढमो॥७३ ।। _ 'एवं' प्रागुक्तप्रकारेण कुपक्षकौशिकसहस्रकिरणे उदयं प्राप्ते 'चकखु'त्ति चक्षुः-खकीयं लोचनं तस्य यः प्रभावो-महिमा नीला
॥११७॥