________________
श्रीप्रवपनपरीक्षा रविश्रामे ॥११॥
AMRAPARISHABAPURIHITHAPURIHIPARIRIL
ऽपीतिचेदहो देवानुप्रिय ! अत एव त्वदीयागमोऽपि न सर्वज्ञमूलकः, किं तु शिवभूतिना सच्छिष्याभ्यां च कौण्डिन्यकोवीरा
तांवराभ्यां प्रवर्तितनिजमतानुसारेण परिकल्प्य निबद्धः, सर्वज्ञोपदिष्टे ह्यागमेऽवश्यमुक्तोपचाराणां सद्भावात् । अथ कैस्तीर्थ प्रवर्त्तते इत्यु
॥ यत्रं
Angजयादि तरार्दुनाह-तीर्थ संप्रति श्वेताम्बरैरेव भवति, तैरपि न नाममात्रधारिभिः, यतो नाम्ना श्वेताम्बरा अपि वक्ष्यमाणा राकौष्ट्रिकादयो नाममात्रेणैवास्मदभ्युपगतमेवागममभ्युपगम्यापि निजनिजमतिविकल्पितार्थोद्भावनेन बहुजनान व्युद्ग्राहयन्तस्तीर्थप्रद्वेषेण त्वत्तोऽपि किष्टपरिणामाः त्वद्वत्तेऽपि तीर्थबाह्या एव वक्ष्यन्ते, अतस्तीर्थप्रवर्तकः श्वेताम्बरः, किंलक्षणैः ?-"ज्ञानक्रियाभ्यां युक्तैः" ज्ञानचारित्रसंयुक्तैः, न पुनरेकतरेणापि विकलैः, तैस्तीर्थाप्रवृत्तेः, यदागमः-"हयं णाणं किआहीणं, हया अण्णाणओ किआ" इति (३-१०१) इति गाथार्थः॥६३। इति गाथाष्टकेन ननाटस्तीर्थबाह्यः प्रदर्शितः, अथ प्रकारान्तरेणापि तथा दर्शयितुं युक्तिमाह
अहवा सवपसिद्धं सितुंजयउज्जयंत तित्थदुगं । जस्स य तं आयत्तं सो संघो वीरजिणतित्थं ॥३४॥ | अथवेति प्रकारान्तरोद्योतकः, शत्रुञ्जयः प्रतीतः उज्जयन्तगिरिः-गिरिनारिपर्वतः एतत्तीर्थद्वयम् , आसतां जैनाः, तदतिरिक्ता अपि जैनसंबन्धीति वदन्ति,सर्वेषां सम्यग्दृशां मिथ्यादृशां चावालगोपाङ्गनानामपि प्रसिद्धं,तत्तीर्थद्वयं यस्थ सङ्घस्यायत्तं निश्रया वर्तते स संघः-श्रमणादिसमुदायलक्षणो वीरतीर्थमितिगाथार्थः॥६४|| अथैतत्तीर्थ ननाटस्यापि भविष्यतीति शङ्कानिरासाय गाथामाह
उजिंतगिरिविवाए सासणसुरिकहणमित्थ संजायं । जो मण्णइ नारीणं मुत्तिं तस्सेव तित्थमिणं ।।६५||
'उज्जयन्तगिरिविवादे' दिगम्बरैः सह परस्परमात्मीयत्वेन कलहे समुत्पन्ने 'शासनसुरी जिनशासनाधिष्ठायिका तस्याः कथनमित्थं संजातं-यो नारीणां मुक्तिं मन्यते तस्येदं तीर्थ,तत्र संप्रदायस्त्वेवं-पुरा यदा इदं श्रीमदुजयन्तमहातीर्थमाशाम्बरैः श्रीश्र-||॥११॥
BhomithsthmaiIATIMILIAlman PHAIRMIMARARIANIHIRAINITISHTRANPATIAHINIONAHAIRAIMIRATAP
UPRILalare