SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ श्रीप्रववनपरीक्षा २ विश्रामे ॥ १०९ ॥ रजनसाम्यं स्यात्, तन्न मच्चेतसि प्रतिभासते इति चेत्, तर्हि तीर्थकृतामितरजनवजन्मादिविधिरपि स्वीकर्त्तव्यो न स्याद्, भोज| नापेक्षया स्त्रीकुक्षिसंभवादेरत्यन्तकुत्सनीयत्वात्, अतस्त्वद्विकल्पितमनल्पपापीय इत्यलं विस्तरेणेति गाथार्थः || ५३ ॥ इति केवलिभुक्तिव्यवस्थापना || अथ नग्नाटमतं कथमेतावद्दृद्धिमुपागतमित्याकाङ्क्षायां गाथामाह सिव भूइप्पभवमयं एवं कालाणुभावओ वुड्ढं । मूढाण पुराणंतिअ भंतिकरं णंत भवहेऊ ॥५४॥ एतदिदानीमेवानन्तरं लेशतो दर्शितं शिवभूतिप्रभवं मतं 'कालानुभावतः' श्रीवीरजन्मनक्षत्रसंक्रान्तभस्मग्रहकुपितकलिकालानुभावतो भूयसां जनानां निमज्जनस्वभावत्वाच्च वृद्धिं गतं मूढानां तन्मतवासिनां 'पुरातन' मिति जीर्ण - श्वेताम्बरेभ्यः पूर्व प्रवृत्त| मिति भ्रान्तिकरं भ्रमजनकमनन्तभवहेतुः - चातुर्गतिकानन्त संसारपरिभ्रमणकारणं स्वस्य परेषां च तदमिमुखानामिति गाथार्थः॥ ५४ ॥ अथ पुरातनभ्रान्तिरपि नग्नाटवचनादेव जायते अतस्तद्वचनपद्धतिमाविष्करोति— नगिणो पभणइ पढमं अम्हे अम्हेहिं निग्गया तुम्हे । तेणं तित्थं अम्हे तुम्हे तित्थाउ बाहिरिआ ||२५|| 'नग्नो' दिगम्बरः 'प्रभणति' पूत्कुरुते प्रथमं - तीर्थप्रवृत्तिकाले आदिभूता 'अम्हे' त्ति वयं 'तुम्हे' त्ति यूयं, 'अम्हेहि 'न्ति अस्मत् 'निग्गय'त्ति निर्गताः, प्रथमे वयं यूयं चास्मन्निर्गता इत्यर्थः तेन कारणेन श्रीवीरप्रवर्त्तितं तीर्थमस्मदीयसमुदाय एव, यूयं तु तीर्थबाह्या इति दिगम्बराभिप्राय इति गाथार्थः || ५५ || अथ प्रागुक्तप्रकारेण दिगम्बरस्य मुधागर्वविध्वंसनाय गाथाष्टकेन तस्यैव तीर्थबाह्यतामा विष्कुर्वन् प्रथमगाथामाह तं मिच्छा जं पच्छा सिअंबरा दिअंबरेहि उप्पण्णा । जण्णं किरिआजुत्तं तित्थं तित्थंकरा विंति ॥ ५६ ॥ पुराणता भ्रमः | ॥१०९॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy