SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा २ विश्रामे ॥११०॥ यद्दिगम्बरेभ्यः श्वेताम्बराः पश्चादुत्पन्नास्तन्मिथ्या-असत्यं, यद् - यस्मात् तीर्थं हि तीर्थकृत्प्रवर्त्तित “तित्थं बाउवष्णो संघो सो पढमए समोसरणे”त्ति (३-२६५) वचनात् साध्वादिलक्षणं, तच्च क्रियायुक्तं भवति, तत्र क्रिया तावत् ज्ञानाद्याराधनरूपा, तया युक्तं - सहितं तीर्थंकरा भाषन्ते इतिगाथार्थः || ५६ || अथ जिनोक्तां क्रियामाह सा पुण किरिआ तिविहा णाणुवयारो अ दंसणुवयारो । चरणुवयारो अ तहा उवयारो राहणा तेसिं ॥ ५७ ॥ सा पुनः क्रिया त्रिविधा भवति, तस्यास्त्रैविध्यमाह - ज्ञानोपचारः, चः समुच्चये, दर्शनोपचारः चारित्रोपचारश्चेति त्रैविध्यं तत्रोपचारशब्दस्य कोऽर्थ इत्याकाङ्गायामाह-उपचारस्तेषां ज्ञानादीनामाराधना - तीर्थकृदुपदेशेन तदनुकूलप्रवृत्तिरित्यर्थ इति गाथार्थः || ५७ || अथ ज्ञानस्योपचारमाह तत्थ य णाणुवया परंपरुवाणजोगपमुहेहिं । तुह सासणि सो न सुओ नामेणवि सुमिणपत्तणं ॥ ५८ ॥ तत्र ज्ञानादिषु ज्ञानोपचारो यथा - "काले १ विणए२ बहुमाणे ३ उवहाणे४ तह चेव अनिण्हवणे५ । वंजण६ अत्थ७ तदुभए अट्ठविहो णाणमायारो ॥ १ ॥ त्ति" तत्र चतुर्थाचारत पोलक्षणमधिकृत्य श्रुताराधनं परम्परोपधानयोगानुष्ठानप्रमुखैर्भवति, तत्र | परम्परा तावत् श्रीसुधर्मस्वामिनोऽद्ययावदच्छिन्नपरिपाटी, न पुनः स्वच्छन्दप्रवृत्तिभाग्भ्यः शिवभूत्यादिम्य: प्रवृत्ता, तत्संतानप्रवाहरूपेत्यर्थः, तया परिपाट्या अर्थादागता ये उपधानयोगाः - श्रुताराधनतपोविशेषाः, तत्रोपधानानि श्री आवश्यकश्रुताराधन हेतवे श्रावक श्राविकाणामेव, योगास्तु कालिकोत्कालिक श्रुताराधनतपोविशेषाः साधुसाध्वीनामिति, तत्र श्रावकोपधान विधेर्दिग्दर्शनं त्वेवं - पञ्चचत्वारिंशदाचाम्लतपःपुरस्सरमुदेशानुज्ञादिक्रियया कृतमहानिशीथ योगानुष्ठानस्य साधोः समीपे श्रद्धावान् श्रावको नन्दिवि दिगंबरे ज्ञानाचा राभावः ॥११०॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy