________________
वर्तमानपयमानता
श्रीप्रवचनपरीक्षा || २विश्रामे ॥१०८॥
मिति गाथार्थः॥५१॥ अथ केवलिनः स्वरूपमाह
तम्हा मोहविमुत्तो सकडं कम्मं फलंपि तयणुहरं । पइपाणिं पासंतो तंमुत्तोऽणतसुह णाणी ॥५२॥ तस्मात्कारणात् मोहविमुक्तः-सर्वथा क्षीणमोहनीयः 'ज्ञानी' केवलज्ञानी 'प्रतिप्राणि' प्राणिनं प्राणिनं प्रति प्रतिप्राणि 'स्वकृतं कर्म | शुभमशुभं वा स्वयं २ कृतं ज्ञानावरणादिकर्म 'फलंपि' फलमपि तत्कर्मजन्यविपाकोऽपि तदनुहरं' तत्कर्मानुसारि, 'कारणानुरूपं कार्य'मिति वचनात् , शुभं वा अशुभं वा कर्मजन्यं फलमपि स्वस्वकृतकर्मानुरूपमित्यर्थः, तथास्वरूपं पश्यन् 'तद्विमुक्त' ताभ्यां कर्मतद्विपाकाम्यां विप्रमुक्तः- स्वयं ततः पृथग्भूतः 'अणंतसुह'त्ति अनन्तं सुखं यस्य सः अनन्तसुखो, लुप्तविभक्तिकमिदं विशेपणमिति गाथार्थः ॥५२॥ अथानन्तशोऽशुचिभावमापत्रमन्नादिकं कथं केवली भुते इति द्वितीयं विकल्पं दूषयितुमाहपज्जाओऽवि पमाणं पवट्टमाणो हुन उण इअरोचि। सिंहासणे निसण्णो धम्मकहं कहइ जह अरिहा ॥५३॥ | __'पर्यायोऽपि' प्रतिक्षणभाविवस्तुस्वभावः सोऽपि 'प्रवर्त्तमानो' वर्तमानकालवर्ती 'प्रमाणं' व्यवहारविषयो भवति, न पुनरितर:-अतीतानागतरूपः, तस्य विनष्टानुत्पन्नत्वेन प्रकृतकार्यानुपयोगित्वात् , न हि भूतभावीन्द्रपर्यायोऽपि गोपालक इन्द्रतया व्यवहियते, तत्कार्याकरणत्वाद् , अन्यथा देवादिभ्य आगतानां मनुष्याणां चारित्रानुपपत्तेः, देवादीनां विरतिपरिणामस्याप्यसंभवाद् , वर्तमानपर्याय एव व्यवहारविषयो भवतीत्यत्र दृष्टान्तमाह-'जहे'त्यादि, यथा 'सिंहासने निषण्णः' स्वर्णरत्नमयसिंहासनोपविष्टोऽर्हन धर्मकथां कथयति, अयं भावः-यथा वार्तमानिकपर्यायमपेक्ष्य स्वर्णादिसिंहासनस्थो भगवान् धर्मकथां कुरुते, तथा वार्तमानिकपर्यायमधिकृत्य शाल्यादिभोजनमपि क्रियता,युक्तेरुभयत्रापि साम्यात् ,ननु मनुष्योचितकुत्सितकवलभोजित्वे केवलिनोऽपी
MAITADAPAR
१०८॥