________________
केवलिमुक्तिः
श्रीप्रवचनपरीक्षा २विश्रामे ।।१०४॥
नधर्म एवेतिगाथार्थः ॥४२॥ ॥इति स्त्रीमुक्तिव्यवस्थापना ॥ इति चतुर्विंशत्या गाथाभिः स्त्रीमुक्तिर्व्यवस्थापिता। श्रीमदणहिल्लपत्तने श्रीजयसिंहदेवराजसभायामनेकविद्वज्जनसमक्षं श्रीवादिदेवसूरयश्चतुरशीतिवादलब्धजयाभिमानिनं दिगम्बरचक्रवर्तिनं कुमुदचन्द्राचार्य निर्जित्य पत्तने दिगम्बरप्रवेशं निवारितवन्तः, तत्र वादे स्त्रीमुक्तिव्यवस्थापननिमित्तं श्रीदेवसूरिभिश्चतुरशीतिविकल्पा उद्भाविताः, ते चामी-इह खलु यस्य यत्रासंभवो न तस्य तत्र कारणावैकल्यं, यथा शुद्धशिलायां शाल्याङ्करस्य, अस्ति च तथाविधस्त्रीषु मुक्तेः कारणावैकल्यं, न चायसिद्धो हेतुः, यतोऽस्यासिद्धत्वं किं स्त्रीणां पुरुषेभ्योऽपकृष्यमाणत्वेनाहोश्चिनिर्वाणस्थानाद्यप्रसिद्धत्वेन निर्वाणसाधकप्रमाणाभावेन वेत्यादि श्रीशान्तिसूरिकृतायां श्रीउत्तराध्ययनवृत्तौ लिखिताः सन्ति ततो बोध्या:, इह तु ग्रन्थगौरवभयान लिखिता इति ॥ अथोत्पमदिव्यज्ञाना अर्हन्तोन मिक्षार्थ व्रजन्ति साध्वानीतानादिभुक्तौ च सप्तविधः पात्रनिर्योगोऽवश्यमभ्युपगन्तव्यः स्यात् , तथा च नाम्यव्रतं स्त्रीमुक्तिनिषेधश्चेत्युभयमपि दत्ताञ्जल्येव स्यादिति विचिन्त्य शिवभूतिना | केवलिनो भुक्तिनिषिद्धा, अत एकादशभिर्गाथामिः केवलिभुक्तिं व्यवस्थापयन् प्रथमगाथामाह
जं केवली न भुंजइ किं कारणमित्थ केवलंणाणं । अह वेअणिआभावा? पढमविगप्पो न जुत्तिजुओ॥४॥
यत्केवलीन मुड़े 'इत्थति अत्र किं कारणं ?, किं केवलज्ञानं अथवा 'वेदनीयाभावो वेदनीयकानुदयो वा!, तत्र प्रथमविकल्प: केवलज्ञानं स न युक्तियुक्तः, विचार्यमाणो युक्तिविकल इति गाथार्थः।। ४३॥ अथ युक्तिरिक्तत्वं दर्शयतिपत्तिजइ सुअणाणी जो जो जम्हा उ होइ अहिअयरो । सो अप्पं अप्पतरं भुंजइ नियमेण भावेण ॥४४॥
केवली केवलज्ञानमाहात्म्यान अते इति तदा प्रतीयते यदि यो यसात् श्रुतज्ञानेनाधिकोऽधिकतरोऽधिकतमो वा भवेत् सोऽ