________________
अवस्खतादु
तिहेतुः
श्रीप्रवचनपरीक्षा रविश्रामे ॥१०॥
BARAHINILAHILAFAIRALINISTRAPARITALITHAPANI
त्कण्ठया, आगताना स्त्रीणां 'प्रथमम्' आदितः 'इह त्वदीयमठादौ 'मेण्टुं' मेहनं पुरुषलिङ्गं तस्य निरीक्षणं भवति, द्वयोरपि नग्नत्वात् , मेण्दूदर्शनं महामोहो, महामोहनीयोदयहेतुत्वाद् , अयं भावः-जगत्स्वाभाव्यादनादिकालाभ्यासाच्च नाग्न्ये सति स्त्रीपुरुषयोः प्रायो गुह्यप्रदेश एव दृष्टिपातो भवति, नान्यत्रेति प्रतीतिः सर्वजनानामनुभवसिद्धैव, पुरुषलिङ्गदर्शने च स्त्रीणां वेदोदयान्महामोहः अतः स्त्रीणां मुक्त्यभावस्त्वदर्शने युक्त एवेतिगाथार्थः॥४०॥अथ वस्त्रधरणे अधरणे च द्वयोरपि लाभमलामं च दर्शयन्नुपसंहारमाहतम्हा तुमंपि वत्थं इत्थीअणुकंपयाइ जइ धरसि । ता दुपहवि निवाणं अन्नह दुण्डंपि दुग्गइओ ॥४१॥
'तस्मात्' प्रागुक्तयुक्तिनिचयात् यदि 'स्त्रीष्वनुकम्पया' मल्लिङ्गदर्शनतो मा स्त्रीजनस्य मोहोदयो भवत्विति स्त्रीजनविषयककृपया त्वं वस्त्रम् , अपिशब्दाद्यथा स्त्रियो वस्त्राणि बिभ्रति तथा त्वमपि वस्त्रं धरिष्यसि 'ता' तर्हि 'दुण्हंपि' द्वयोरपि स्त्रियास्तव च 'निर्वाण' मुक्तिः स्यादेव, अन्यथा-वस्वाधरणे दूयोरपि 'दुर्गतयो' नारकादिकुत्सितगतयो, बहुवचनमनन्तशस्तत्र गमनसूचकम् , अत एव भवभ्रमणमित्यर्थः,स्त्रीणां दुर्गतयस्तु त्वल्लिङ्गदर्शनेन वेदोदयाद् दुर्ध्यानात् , तव तु स्त्रीदुर्गतिहेतुमार्गप्ररूपकत्वेनेति गाथार्थः ॥४१॥ अथ नमाटनाटकमाश्रितानां मूढत्वमाविष्कुर्वनाह
न मुणइ मूढो लोओ धम्म पुच्छंतमेव जो गुज्झं । दंसेइ तस्स पासे धम्मो ता कहिमहम्मो अ॥४२॥ 'मूढः' अज्ञानावृतो लोकः, हे नम्राट ! त्वन्मार्गाश्रितो लोको न जानाति यत् को धर्मो मुक्तिसाधक इति, 'धर्म' धर्ममार्ग च 'पृच्छन्तमेव' प्रश्नं कुर्वन्तमेव यः प्रष्टव्यपुरुषो गुरुलक्षणो 'गुह्यं गोपनीयलिङ्गोपस्थादिकं दर्शयति तस्य पार्श्वे यदि 'धर्मः' धर्मप्राप्तिः स्यात् 'ता' तर्हि 'कहिं ति कुत्रान्यत्राधर्मः, न क्वापि, किंतु त्वत्समीप एवाधर्मः, हे नम्राट ! त्वमेव पापात्मा मूर्तिमा