________________
श्रीप्रवचनपरीक्षा
२ विश्रामे
॥१०१॥
तम्हा केवलणाणं णाणावरणस्वयंमि सो अ पुणो । सुहझाणा सुहझाणं पायं बाहाविरहिअस्स ||३६|| बाहा पुण णेगविहा तयभावोऽणेगकारणेहिं भवे । कत्थवि असणाईहिं कत्थवि वत्थाइत्थूहिं ||३७|| इअ विष्णेयं धम्मोवगरणअइरितु परिगहो होइ । अण्णह असणाईहिं सरीरपोसो तुम दोसो ||३८|| यस्मात्प्रागुक्तयुक्तिसमूहात् न वस्त्रं केवलज्ञानावरणं तस्मात् केवलज्ञानं केवलज्ञानावरणस्य - ज्ञानावरणीयमूलप्रकृतिविशेषस्य क्षये-सर्वथाऽपगमे सति संभवति, 'सोऽपि' ज्ञानावरणीय कर्म्मक्षयोऽपि 'शुभध्यानात्' शुक्लध्यानविशेषात्, शुक्लध्यानमपि 'प्रायो' बाहुल्येन 'बाधाविरहितस्य' शरीरादिपीडाशून्यस्य मनुजस्य संभवति, प्रायोग्रहणात् स्कन्दलाचार्यशिष्यगजसुकुमारादीनामन्यथा दर्शनेऽपि न दोष इति गाथार्थः || ३६ || अथ द्वितीयगाथामाह
बाधा पुनरनेकधा - अनेकप्रकाराः स्युः, तदभावोऽपि - अनेकविधबाधानामभावोऽपि अनेककारणैर्भवेत्, प्रति कार्य कारणानामषि | मिन्नत्वात्, तदेव स्पष्टयति- 'कत्थवि' त्ति कुत्रचित् क्षुधादिपीडिते पुरुषविशेषे क्षुधाजन्यपीडाया अभावोऽशनादिमिरेव स्याद्, , ओ|दनादीनामेव तत्कारणत्वात्, एवं पिपासाजन्यबाधा पानीयेनैवोपशाम्यति, न पुनरोदनादिना, तथा शीतातपदंशमशकादिजन्यायाः बाधाया वस्त्रादिभिरेवोपशमः, ननु शीतातपादिपीडानिवारणं वस्त्रादिप्रावरणं तावद्युक्तं, कथं पुनः पात्रमपीतिचेद्, उच्यते, मिक्षाचर्यां गतः साधुरुष्णमन्नं पानं वाऽवाप्य पाणिना भुञ्जानः पिबंश्च पाणिमुखहृद्दाहादिना बाध्यते, तन्निवारणं तु पात्रेणैव भवेत्, यतस्तथाविधमन्नं पानं वा पात्रेणैवोपादाय संयमाबाधया भुङ्क्ते पिबति च, पात्रमन्तरेण तादृशमन्नादिकं ग्रहीतुमक्षमस्तत्परित्यज्यान्यदन्नादिकमन्वेषयतोऽलाभे संयमबाधा स्याद्, भूयसा कालेन लाभेऽपि स्वाध्याय ध्यानादिः उपहन्येत, असंयमनिवारणं तु
वस्त्रस्य
शुभध्यान
हेतुता
॥ १०२ ॥