________________
श्रीप्रव- चनपरीक्षा २विश्रामे ॥१०॥
SA
वस्त्रस्य ज्ञानानावरणता
स्त्रीणां केवलज्ञानं न स्यादिति दिगम्बराकृतकदल्याः कृपाणकल्पां गाथामाह
जइ चीवरवरिआणं न केवलं तं हवे तयावरणं । उप्पण्णपि कयाइ चीवरजोगे विलिइज्जा ॥३४॥ यदि चीवरावृतानां-चस्वाच्छादितशरीराणां केवलज्ञानं न भवेत् , तहीति गम्य,तर्हि तद्-वस्त्रं परिहितवस्त्रं 'तयावरणं तितस्य-केवलज्ञानस्यावरणम्-आच्छादनकारणं संपद्येत,केवलज्ञानावरणीयकर्मतया परिणतं,यद्यदावृणोति तत्तस्यावरणं,यथा श्रुतज्ञानमावृण्वन् श्रुतज्ञानावरणीयकर्मप्रकृतिरिति 'यद् विद्यमानं सत् यस्योत्पत्तिं प्रतिबध्नाति तत्तथाभूतं सत्तदुत्पन्नमपि विनाशयतीतिकृत्वा उत्पन्नमपि केवलज्ञानं कदाचिच्चीवरयोगे-वस्त्रसम्बन्धे विलीयेत-विनाशं प्राप्नुयात् , तच्च न संभवति, अतो दिगम्बराकूतमालजालमिति गाथार्थः ॥३४॥ अथ प्रागुक्तमनिष्टमपीष्टापल्या स्वीकुर्वन्तं क्षपणकं दूषयितुमाहएवं चिअ कप्पिजइ चीवरवरिआण जइ न सुअणाणं । घोसिजंतं हुज्जा लुप्पिज्जा अहव भणिपि ॥३५॥
चिअशब्दोऽप्यर्थे, एवमपि कल्प्येत यदि सवस्त्रस्य परिहितवस्त्रस्य घोष्यमाणमपि श्रुतज्ञानं न भवेद् ,अथवा भणितमपि वस्त्रवतो | विलुप्येत, श्रुतज्ञानस्यापि ज्ञानत्वेन केवलज्ञानसाम्यात् , केवलज्ञानस्येव श्रुतज्ञानस्याप्युत्पत्तिविनाशयोरविशेषात् , ननु श्रुतज्ञानं
तावत् क्षायोपशमिकं, तस्य सवस्त्रस्यापि संभवो न विरुध्यते, केवलज्ञानं तु क्षायिक, तच्च वस्त्रादौ ममतावतः कथं स्यादितिचेत्, | मैवं, देहेऽपि तथासंभवात् देहिमात्रस्यापि तदभावापत्तेः, तस्माद् ज्ञानस्य स्वखावरणापगमे खस्खोत्पत्तेपलीयसाऽपि पराकर्तुमशक्तेः | श्रुतज्ञानादिवत् केवलज्ञानमपि सवस्त्रस्य भवत्येव, वस्त्रस्य च ज्ञानावरणात्मकत्वाभावादिति गाथार्थः ॥ ३५॥ अथ वस्त्रादिधर्मोपकरणं न केवलं केवलज्ञानावरणमेव न भवति, अपितु केवलज्ञानोत्पत्तावुपकारकमपीति गाथात्रयेण दिदर्शयिषुः प्रथमगाथामाह
॥१०॥