________________
श्रीप्रवचनपरीक्षा २विश्रामे ॥९९॥
पिच्छिकादेरलिंगता
परिग्रहतयेतिगम्यं, ननु पिच्छिकादिकमस्माकं धर्मोपकरणमेव कथं परिग्रह इति चेत् चिरं जीव, धर्मोपकरणं परिग्रहो न भवतीति बुवाणस्त्वमपि स्वयमेव तटादर्शिशकुन्तपोतन्यायेनासत्पक्षमेवाश्रितः, शकुन्तपोतन्यायस्त्वेवं-महासमुद्रमध्यगतपोतकूपस्तम्भात् कश्चित् शकुनिपोत उडीनः सन् अन्यत्तटादिकमुपवेशनस्थानमनुपलभमानः पुनः तत्रैवागत्योपविशति, एवं त्वमपि पिच्छिकाक| मण्डलुदेहप्रभृतिकं बिभ्राणः श्वेताम्बरेण ध्रियमाणचतुर्दशोपकरणवत् तवापि परिग्रहो नवेति केनचिदुदीरितः अन्यत्प्रत्युत्तरदाना| समर्थो धर्मोपकरणं परिग्रहो न स्यादिति ब्रूपे, परममाकं यान्युपकरणानि तानि शुभध्यानादिविघातकानां शीतातपादीनां निवारकत्वेनासंयमहेतुधूमकेतुप्रभृतिसेवापराकर्तृत्वेन प्रागुक्तप्रकारेण त्रसादिजन्तुरक्षाहेतुत्वेन च तीर्थकृदुपदिष्टत्वात् संयमपरिपालनहेतवोऽसंयमनिवारकाणि च, तव तु पिच्छिकाकमण्डलुप्रभृतीनि न संयमहेतवो नाप्यसंयमनिवारकाणि, प्रत्युत तीर्थकृदनुपदिष्टत्वेनाधिकरणरूपत्वादसंयमहेतव एव, तीर्थकृदनुपदिष्टत्वं तु तवापि सम्मतं,न हि पिच्छिकादिकं तीर्थकृद्भिरुपदिष्टं धृतं वा,न चास्तामन्यद्यत्किश्चित् परं पिच्छिका तावत् प्रमार्जनाहेतुतयैव ध्रियते, सा कथमधिकरणमिति चेद् , उच्यते,न हि पिच्छिका तावत्केवलप्रमार्ज-| नहेतव एव धियते, किंतु साधुलिङ्गधिया, न च पिच्छिका साधुलिङ्गम् , अन्यतीथिकानामपि पिच्छिकाया दृश्यमानत्वात् , तसातीर्थकृदनुपदिष्टत्वेनाधिकरणमेव पिच्छिका, किंच-पिच्छिका यदि साधुलिङ्गं स्यात्तर्हि दिगम्बरमात्रस्यापि युज्यते, यथा श्वेताम्बरनाममात्रस्यापि रजोहरणमुखवस्त्रिके, न चैवं दिगम्बरमते, यतो दिगम्बराणां चत्वारो मेदाः, तथाहि-काष्ठासको मूलसको गोप्यसङ्घो माथुरसङ्घश्चेति, तत्र मूलसङ्घ मयूरपिच्छिका काष्ठासङ्घ च चमरीगोवालपिच्छिका गोप्यसङ्घ च पिच्छिका गोप्या,माधुरसङ्घन च मूलतो पिच्छिका नादृतेति तेन दिगम्बरस्य पिच्छिकाकमण्डलुदेहादिकं परिग्रह एवेतिगाथार्थः॥३३॥ अथ वस्त्रावृतानां
॥ ९९॥