________________
श्रीप्रवचनपरीक्षा रविश्रामे ॥९७॥
पात्र संयमोपकारकं
BAPAILIPARITRIAN
UPIRANTIPUR
ऽभिद्रूयमाणस्यामिकायादिसेवा, अतोऽनेकत्रसस्थावरविराधना,महिकाधूम्रिकादिपातेऽप्कायविराधना चेत्यादिदोषाः अनावृतशरीरस्य संभवन्ति, तनिवारणं च न वस्त्रैविना कर्तुं शक्यं, तथा ज्वरादिबाधिततनोस्तव वस्त्राभावे गुप्तदवरकसद्दरिकादिगृहस्थोपकरणप्रतिषेवणया गृहस्थतुल्यतैव,प्रतिलेखनानर्हे गुप्तदवरकसद्दरिकादौ त्रसाधनेकजन्तुविराधना प्रवचनमालिन्यं चेत्यादिदोषप्रतिहतिनिमित्तं कल्पत्रिकं,यदागमः-"किं संजमोवयारं करेइ वत्थाइ जइ मई सुणसु। सीअत्ताणं ताणं जलणतणगयाण सत्ताण।।१।।" (२५७५) इत्यादि श्रीविशेषावश्यकभाष्ये तद्वृत्तौ च सविस्तरमितियोध्यम् । अथ पात्रैः संयमोपकारमाह-"पत्तेहिन्ति पात्रःपतद्हादिभिः तथैव-वस्त्रवदेव त्रसस्थावरयतना विज्ञेया, तथाहि पात्राभावेन भोजने क्रियमाणे सस्निग्धा दुग्धादिविन्दवोऽधः पत|न्ति,तत्र च पृथिव्यां विद्यमानानां पिपीलिकादीनां सद्य एवोपघातः अविद्यमानानां च तद्गन्धाधाकृष्टानां पिपीलिकादीनां समागमनं, | समुदिताश्च जन्तवः कथंचित् कस्यापि पादादिन्यासेन सद्य एव युगपद्विपद्यन्ते, मक्षिकाद्यर्थमागतेभ्यो गृहगोधादिभ्यश्च सकाशात् महानसंयमः, कुण्डिकादिमण्डापनेपि गृहस्थभाजनव्यापारणमसंयम एव, यतस्तदप्रतिलेखितं सत् पनककुन्थ्वादिसंसक्तं सचित्तजलादिसंसक्तं वा भवेत् , कदाचिदेवं दोषाभावे न मनसः शुद्धिः, तद्व्यापारानन्तरं च पतितबिन्दूनां गृहस्थकृतायां परिष्ठापनायां प्रागुक्तप्रकारेण जन्तूनामुपघातः, सचित्तजलादिना पात्रधावनादौ बहवो दोषा इति कुण्डिकादिकं नासंयमनिवारकं, प्रत्युत केवल| मसंयमहेतुरिति, अत एव गृहस्थपात्रभोगोऽनगाराणामयोग्य एव, यदागमः-"कंसेसु कंसपाएसु, कुडमोएसु वा पुणो । भुंजतो
असणपाणाई, आयारा परिभस्सइ ॥१॥" इत्यादि श्रीदशवैकालिके (२५९) तथा पाणिभ्यां भुञ्जानस्य द्राक्षादिगतत्रसजन्तु. | यतना न स्यात् , तथा गलनादिभयेन दध्यादिद्रववस्तुनि त्वरितंर भुज्यमाने तद्गतजन्तुविपत्तिः स्यात् , तथा पात्राभावेऽशना
ALHAPARIHARIPATI