SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ वलं जीवरक्षाहेतु: श्रीप्रवचनपरीक्षा २विश्राम ॥९६॥ rimeHAMPARIORTAITPATTERNATAURANTIPATinni HINilIRMALAAPARITRA NRITIMIRRITOR वावस्थानं युक्त, लोके तव तासां चातिनिन्दनीयत्वाद, यदि वेश्याजनोपान्तोपवेशने ब्रह्मव्रतगप्तिभङ्ग इति चेत् तर्हि नवमगुणस्थानकं यावत्साधूनामपि वेदोदयो नियतः, तीर्थ तावत् षट्सप्तमगुणस्थानकवर्तिसाध्वायत्तं, तेषां च साधूनां ननभावे तथाविधवीदर्शनादिना सागारिकविकृतिसंभवे कथं ब्रह्मचर्यगुप्तिस्थितिः, कथं वा न प्रवचनोडाह इत्यादिकं नेत्रनिमीलनपुरःसरं रहसि विचार्य हे आर्य! परिहरानार्यचिवं,किंच-लोकभाषया यदभाष्यं सागारिकादिकं तन्नीचजातीयोऽपि क्वचित्क्रोधाविष्टोऽपि कलहादो प्रयोजनविशेष प्रतिपक्षं प्रत्यप्रीतिहेतवे वाग्गोचरीकुर्वन दृष्टः, परमुक्तकारणाभावेऽपि कुलस्त्रीजनस्यापि दृग्गोचरीकारयस्तु त्वमेव धृष्टो दृष्ट इत्यलं तव कुविकल्पनया। एवं सत्यपि यदि तव वस्त्रन रुचिस्तर्हि पिच्छिकावत मयरपिच्छग्रथिततथाविधरचनया सद्दरिकया | वा तथाविधकाष्ठकौपीनेन वा सागारिकं तु संगोपनीयमेवेतिभावः।। ____ अथ जीवरक्षाहेतुत्वेन यथा संयमोपकारकं वस्त्रं तथाऽऽह-'तसथावराणं तित्रसस्थावराणां यतना-रक्षा वस्त्रैरेव स्याद् , वस्त्रपदमुपलक्षणपरं तेन वस्त्रनिष्पन्नरजोहरणादिपरिग्रहः, रजोहरणादिभित्रसस्थावरजन्तुयतना स्यादित्यर्थः, तथाहि-शयनोपवेशनादि| क्रियां चिकीर्षुणा शय्यासनादिगतकुन्थुपिपीलिकादिप्रमार्जनं तावदवश्यं कर्त्तव्यम् , अन्यथा तद्गतानेकत्रसघातस्तवापि सम्मतः, तत्प्रमार्जनं च रजोहरणेनैव कर्तुं शक्यते, यद्यपि प्रमार्जननिमित्तं पिच्छिका त्वयाऽप्यभ्युपगता परमुभयकालं विरलीकृत्य प्रतिलेखयितुमशक्यत्वेन तद्गतपनकादिविराधनासंभवात् सैवायतनाहेतुः, तथाऽनावृतमुखेन भाषमाणस्य मुखविवरे सहसा मक्षिकादिप्र| वेशस्तवाप्यध्यक्षसिद्धः, सर्वज्ञवचनप्रामाण्याच्च मुखनिर्गतनिःश्वासादिना असंख्यातजीवात्मकबादरवायुकायिकविराधना मुखवस्त्रि| कामन्तरेण निवारयितुं न शक्यते, दंशमशकादिभिरभिद्रयमाणस्य सहसा कण्डयनादि कुर्वतो दंशमशकादिविराधना, शीतादिना A ।। ९६॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy