________________
श्रीप्रवचनपरीक्षा रविश्रामे ॥९५॥
MRITRA
| संयमहेतुः
BamDITISHALIDARBHAmanoram
ASTHANIPATRAILIBHIRIDIUMinappinitin R
पुनर्जघन्यतोऽपि चतुदशोपकरणवानेव, तानि चोपकरणानि द्वादश जिनकल्पोक्तान्येव, मात्रकं१३ चोलपट्टकश्चेति१४ चतुर्दश, यदुक्तं-"एए चेव दुवालस मत्तग अइदेग चोलपट्टो उ। एसो चउदसरूवो उवही पुण धेरकप्पंमि ॥१॥ इति (पं० ७७९) तत्र मात्रकं सर्वयतिसाधारणवस्तुग्रहणयोग्यः पात्रविशेषः, स्थविरकल्पे उत्कृष्टपदिकोपकरणचिन्तायां तु शीताद्यसहिष्णून् तपखिबालग्लानादीन् प्रतीत्य यावत्संयमनिर्वाहहेतुर्विंगुणोऽप्यधिको वा उपधिः श्रीनिशीथचूाद्यागमोक्तोऽवगन्तव्यः, एवमुक्तप्रकारेण जिनकल्पिकाः स्थविरकल्पिकाश्चेत्युभयेऽपि प्रागुक्तगुणहेतवे वस्त्राणि बिभ्रति, अन्यथा प्रवचनखिसादयः स्त्रीजनस्यात्मनश्च मोहोदयादयो बहवो दोषाः स्युः, ननु परित्यक्तसर्वसङ्गानां साधूनां लोकानुवृत्त्या लज्जया वा किं प्रयोजनं ?, प्रत्युत तयोः परिहरणीयत्वादितिचेत् , मैवं, पापोपादानहेतूनामेव लोकानुवृत्त्यादीनां परिहर्तव्यत्वात् , न पुनः संयमहेतूनामपि, प्रत्युत तेषामुपादेयत्वाद्, अन्यथा कथं त्वयाऽपि नग्नाटेन जलशौचमुखविवरकवलप्रक्षेपादिकं विधीयते, तस्यापि लोकानुवृत्त्यन्तःपातित्वात् , ननु भवतु यत्किश्चिद् वस्त्रपरित्यागे, निःस्पृहता तु भवत्येव, सा च चारित्रानुगुणा कथं भवतां नाभिमतेति चेत् , सत्यं, धर्मोपकरणातिरिक्तपरित्यागेनैव निःस्पृहताऽस्माकं संमता, न पुनर्धर्मोपकरणपरित्यागेऽपि, अन्यथा तवापि कमण्डलुपिच्छिकादि परिहरणीयं स्यात् , अथ शीतादिसहनार्थ वस्त्रं परिड्रियते इति चेत् परिहियतां नाम तदर्थ, परमवाच्यावयवगोपननिमित्तं तु धर्त्तव्यमेव, न हि तावन्मात्रोपयोगिवस्त्रधरणे शीतादिसहनान्तरायः स्यात् , नन्वासाकीनब्रह्मव्रतधैर्यज्ञापनाय नाग्न्यव्रतमस्माकमिति चेत् , सत्यं, तर्हि लावण्यादिगुणोपेताभिः सुन्दरीभिः सह संवासासनशयनादिकमपि युज्येत, तस्यापि ब्रह्मचर्यधैर्यज्ञापनाय विशेषतो हेतुत्वात् , किंचनग्नस्य ते वेश्यादिजनोपान्त एवोपवेशनादिकं युक्तं, भण्डिकचेष्टायाः तत्रैव युक्तत्वात् , न पुनः कुलस्त्रीमध्येऽवाच्यं दर्शयतस्त
aum