________________
जिनकल्प
श्रीप्रवचनपरीक्षा २विश्रामे ॥९४॥
JAINERAPPIRAIMAmrTIMILammaNaINMHARATARRAIMILAPAN
IMAINTAINSTIPATIMANIRRIGANPURANIIIIF
वस्त्रकार्यस्य लब्ध्यैव कृतत्वावस्खाभावः, नहि कश्चिदप्यादित्योद्योतिते वस्तुनि प्रदीपमपेक्षते, प्रदीपकार्यस्य सूर्येणैव कृतत्वात् , तत्रापि शीतादिसहनसामर्थ्यमपेक्षणीयं, पात्राणि च बिभ्रति, तद्विषयकलब्ध्यभावात् , तेषां चोपकरणानि नवैव भवन्ति, नियतसप्तसंख्याकेषु पात्रनियोगोपकरणेषु विकल्पाभावात् , ये तु वस्त्रपात्रोभयविषयकलब्धिमन्तो न ते पात्रं न वा वस्त्राणि विभ्रति, द्वयोरपि प्रयोजनाभावाद् , उभयजन्यस्यापि कार्यस्य लब्ध्यैव कृतत्वात् , तेषामुपकरणे रजोहरणमुखवस्विकालक्षणे भवतः, ये त्वलब्धिभाजस्तैरवश्यं वस्त्रपात्राद्युपकरणं धर्त्तव्यमेव, यदुक्तं-"निरतिशयिना वस्त्रापात्रादिकमन्तरेण चरणस्य प्रसाधयितुमशक्यत्वा"दिति श्रीधर्मसंग्रहणीवृत्तौ २२६ पत्रात्मक पुस्तके १९२ पत्रे, तेषां च मध्ये सामर्थ्यानुसारेण कश्चिदेकं कल्पं धरति तस्य दशोपकरणानि, यस्तु द्वौ कल्पौ बिभर्ति तस्यैकादश, यस्य कल्पत्रयं तस्य द्वादशोपकरणानि भवन्ति, यदुक्तं-"पत्तपत्ताबंधोरपायढवणं च६ पायकेसरिआ। ४ पडलाइं५ रयत्ताणं गुच्छगओ७ पायनिजोगो९॥१॥'पायनिजोगुत्ति पात्रपरिकरः "तिन्नेव य पच्छागा१० रयहरणं११ चेव होइ मुहपत्ती१२। एसो दुवालसविहो उवही जिणकप्पिआणं तु ॥२॥” 'पच्छाग'त्ति प्रच्छादकाः कल्पाः, द्वौ सौत्रौ एकस्त्वौर्णिक इति त्रयः कल्पाः, एवमुपकरणमेदैरष्टौ विकल्पा जिनकल्पे भवन्ति, यदुक्तं-“दुगर तिग३ चउक्क४ पणगं५ नव९ दस१० इक्कारसेव११ बारसगं१२। एए अट्ठ विगप्पा जिणकप्पे हुंति उवहिस्स ॥१॥पुत्तीरयहरणेहिं दुविहोर तिविहो अइक्ककप्पजुओ३। चउहा कप्पदुगेणं४ कप्पतिगेणं तु पंचविहो५ ॥२॥ दुविहो तिविहो चउहा पंचविहोविहु सपायनिजोगो। जायइ नवहा दसहा इक्कारसहा दुबालसहा ॥३॥ इति (पञ्चवस्तु० ७७२-३-४) एवंविधो हि जिनकल्पः संप्रति व्युच्छिन्नः, यत्कालोत्पन्नः सिध्यति तत्कालोत्पन्न एव जिनकल्पं प्रतिपद्यन्ते, नान्यः, संप्रति तथास्वरूपाभावात् , संप्रत्येकः स्थविरकल्प एव, तद्वान्
ILAMPARAN