________________
श्रीप्रवचनपरीक्षा २विश्रामे ॥९३॥
जिनजिनकल्पिकस्वरूपं
खप्रभामण्डलाच्छादितदेहाः ज्ञानातिशयसंपत्समन्विताः निश्छिद्रपाणिपात्राः जितपरिषहा" इत्यादि, एवरूपादिगुणा अनन्यतुल्या ज्ञातव्याः। इति श्रीधर्मसंग्रहणीवृत्तौ। तस्माद्वस्त्रपरिधानादिनिमित्तं जुगुप्सनीयावाच्यावयवादिदर्शनं, तच तीर्थकृतां न संभवति, अतः 'कारणाभावात्कार्यस्याप्यभाव' इति न्यायात् वस्त्रापरिधानेऽपि तीर्थकृतां न लोकानुवृत्यादिगुणविलोपः, लोकैरपि वस्त्रपरिधान मुख्यवृत्या असभ्यावयवगोपननिमित्तमेव क्रियते, मामर्त्यलोकस्य लज्जया लजनीयावयवगोपनखभावाद्, अत एव लोकाभाणकोऽपि-'अहो अधो नग्नस्य मस्तके मौलिक मिति, शरीरादिशोभा तु क्षुधाद्युपशमनाय क्रियमाणे भोजने अशनाद्यनुसारेण माधुर्याद्यास्वादशरीरपुष्टयादिवि गुह्यावयवेष्वाच्छादितेषु स्वत एव सिद्ध्यति, न पुनःप्रथमतस्तदर्थमेव प्रवृत्तिः, पात्रभोगस्तु तीर्थकृतां सर्वथा न स्यात् , यतस्ते ह्यच्छिद्रपाणयस्तीर्थकराः तेषां भोजनावसरे चन्द्रादित्यौ यावच्छिखा गच्छति, न बिन्दुरप्यधः पतति, चतुर्विधज्ञानबलाच्च संसक्तासंसक्तमन्नं सत्रसमत्रसं च जलादिकं ज्ञात्वा निर्दोषमेवोपाददते इति तीर्थकृतां पात्रधारणे न कश्चिद् गुणः, ये तु जिनकल्पिकास्ते द्विविधा-लब्धिमन्तोऽलब्धिमन्तश्च, तत्र लब्धिरपि कर्मणां क्षयोपशमवैचित्र्यवशात् केषांचित्पात्रविषया केषांचिद्वस्त्रविषया केषांचिदुभयविषयापि, तत्रापि येषां पात्रविषया तैः पाणिपात्रतयैव भवितव्यं, पाणिनैवाशनादावाडीयमाणे न कापि संयमविराधना, नापि प्रवचनजुगुप्सा, प्रत्युत प्रवचनप्रभावना, सा च लब्धिरेवं “माइज घडसहस्सा अहवा मायंति सागरा | सत्वे । एआरिसलद्धीओ सो पाणिपडिग्गही होइ॥१॥"त्ति, ते च वस्त्राणि बिभ्रति,तद्विषयकलब्ध्यभावात् ,तत्रापि सामर्थ्यानुसारेण | कश्चिदेकं कल्पं कश्चिद् द्वौ कश्चित्रीन् कल्पान् बिभर्ति, तेषां च क्रमेण रजोहरणमुखवस्त्रिकोपेतानि त्रीणि चत्वारि पञ्च वोपकरणानि भवन्ति, एवं वस्त्रानावृता अपि ये नना न दृश्यन्ते ते वस्त्रविषयकलब्धिमन्तः, वस्त्रजन्यकार्यविषयकलब्धिमाज इत्यर्थः, तेषां
Politimes
॥१३॥