________________
THAPA
श्रीप्रवचनपरीक्षा २विश्रामे ॥९२॥
आहारवद्वस्त्रं षत्रपात्रगुणात्र
पवयणखिंसा परवग्गमोहुदयवारणं च वत्थेहिं । तसथावराण जयणा पत्तेहिं तहेव विण्णेआ ॥३१॥ प्रवचनखिंसा-अहो एते मुण्डाः ! पापात्मानः अस्मदीयपुत्रीवध्वादीन् स्वजनान् प्रत्यवाच्यं दर्शयन्तोऽपि न लजन्ते, अतो मासद्गृहादौ प्रविशन्त्वितिवचोभिः प्रवचनहीला, तथा 'परवर्गस्य' पुरुषापेक्षया परवर्गः-स्त्रीवर्गस्तस्य मोहोदयः, प्रायः स्त्रीपुरुषयोरयमेव स्वभावः यद्वस्त्रानावृतं परवगं दृष्ट्वा मोहोदयो भवत्येव, ततः प्रवचनखिसा च परवर्गवेदोदयश्चेति द्वन्द्वस्तयोर्निवारणं वरेणैव स्यात् , अन्येऽपि वस्त्रादिसाधुनेपथ्यजन्याः पर्षद्धर्मप्राप्तिहेतवो रूपवस्त्रादय आचार्यगुणाः स्वधिया योज्याः, ननु जिनेन्द्रजिनकल्पिकादयो वस्त्रादिरहिता एव भवन्ति, तेषां च कथमेते गुणा इति चेत् मैवं, जिनेन्द्रादीनामपि लोकानुवृत्त्यादिकारणसद्भावे | वस्त्रसद्भावस्यैवास्माकं सम्मतत्वात् , तत्कथमितिचेत् शृणु जिनेन्द्रा अपि गृहस्थावस्थायां बालभावे तदतिक्रमे च यथोचितं वस्त्रालङ्कारविभूषिता एव भवन्ति, प्रव्रज्याप्रतिप्रत्यवसरे तु देवेन्द्रोपनीतदेवदृष्यवस्त्रं सवस्वपात्रो धर्मो मया प्रज्ञापनीय इति वामस्कन्धोपरि धरन्ति, यदागमः-"सत्वेऽवि एगदूसेण निग्गया जिणवरा चउव्वीसं"ति श्रीआव० नि० (२२७) परिधानभावस्तु तेषां सत्यपि नाम्ये पुण्योत्कर्षोदयात् कुत्सनीयत्वाभावात् प्रत्युत सुभगत्वाच्च,उक्तं च-"अनध्ययनविद्वांसो,निर्द्रव्यपरमेश्वराः । अनलङ्कारसुभगाः, पान्तु युष्मान् जिनेश्वरा ॥१॥" इति, किंच-जिनेन्द्राणां गुह्यप्रदेशो वस्नेनैव शुभप्रभामण्डलेनाच्छादितो न चर्मचक्षुषां | दृग्गोचरीभवति, यदुक्तं-"अण्णेसिं मोहोदेयहेउअभावो सुहाणुबंधाओ । गुतिंदिअया य गुणा अणन्नतुल्ला मुणेअवा॥१॥ (१११६) इतिश्री धर्मसंग्रहणीसूत्रे, तवृत्तिर्यथा-अन्येषां च-स्त्रयादीनां तद्रूपदर्शनानन्तरं मोहोदयहेतुत्वाभावः,गुप्तेन्द्रियतेति गुप्तलिङ्गता, चकारोऽनुक्तसमुच्चये, तेनान्येऽपि निश्छिद्रपाणिपात्रादयो द्रष्टव्याः, तथा चोक्तं-"ते हि भगवन्तो निरुपमधृतिसंहननाः गूढेन्द्रियाः