________________
liunau mainlad
hai
l
श्रीप्रवचनपरीक्षा २विश्रामे ॥८८॥
दिगंवरपक्षः
à
उत्कर्वतोऽपि द्वितीयायां चालुकाप्रभायामुत्पद्यन्ते, नाधः, शकुनयः पङ्कप्रभायां यावदुत्पद्यन्ते नाध इत्यादि, यावत् मत्स्याः सप्तम्यामपीति, ऊर्ध्व तु सर्वेषामपि समं गमनं, सहस्त्रारं यावत्सर्वेषामप्युत्पादात , अतः सरीसृपादीनामधोगमने वैषम्येऽपि ऊर्ध्वगमने शक्तिसाम्पमेवेति दिगम्बरोद्भाविता व्याप्तिनिर्मूलमुन्मलितैवेतिगाथार्थः ॥२४॥ अथोक्तं प्रकृते योजयति
__ एवं थीपुरिसाणं भेअंमि अहोगइंच अहिगिच्च । उद्धंगमणे भेओ नत्थि त्थित्तेण थीमुत्ती ॥२६॥ । 'एवं प्रागुक्तसरीसृपादिदृष्टान्तेनाधोगतिमधिकृत्य स्त्रीपुरुषयोर्भेदेपि-वैषम्येऽपि ऊर्ध्वगमने भेदो नास्ति, तेन कारणेन स्त्रीणां | मुक्तिरस्तीतियुक्तिरातुरस्य कटुकौषधपानकल्पाऽनिच्छतोऽपि दिगम्बरस्य गलविलग्नेति गाथार्थः ॥२५॥ अथ स्त्रीणां चारित्रानङ्गी|कारे त्रिविधसङ्घापल्या पादोन तीर्थं संपद्यतेति विचारबाह्यो दिगम्बरः शङ्कते
अबला चीवरवरिआ चीवरवरिआण होइ ममकारो। ममयापरिग्गहो खलु तेणं नो थीण चारित्तं ॥२६॥
अबलाः-तुच्छ सत्त्वाः स्त्रियः 'चीवरवरित्ति चीवराणि-वस्त्राणि तैर्वृता-आच्छादिताः भवन्ति, चीवरावृतानां च ममकारो, | ममता च परिग्रहः, येनागमः-"मुच्छा परिग्गहो वुत्तो"त्ति, तेन कारणेन परिग्रहवत्वेन स्त्रीणां चारित्रं न भवतीतिगाथार्थः॥२६॥ अथ चरणाभावे किं स्यादित्याहचरणाभावा मोक्खो इत्थीणं नत्थि तत्थ को दोसो। नहि सामग्गिअभावा कजं उप्पजए किंचि॥२७॥
चरणाभावात् स्त्रीणां मोक्षो नास्ति तत्र को दोषः?, कोऽपि नास्तीत्यर्थः, हिः-यस्मात् सामग्र्यभावात्-अविकलकारणाभावान्न किश्चिद् घटादिकं कार्यमुत्पद्यते, तथा चारित्राभावात् स्त्रीणां मोक्षाभाव इति गाथार्थः॥२७॥ अथ दिगम्बरपूर्वपक्षं क्षयितुमाह
IHARIBIPIKARINEETINAMAHINITIRANAPIRATRAVEL
PAHIMIRIRAUHADA
PRATIIINIMIPARDHATRUBIP
NAPRImpan