________________
श्रीप्रवचनपरीक्षा २ विश्रामे
॥ ८९ ॥
जइ इत्थीणं वत्थं सहजायं ता तउव नो दोसो । अह बंभवयहेऊ तोऽणुगुणं सङ्घविरईए ||२८|| यदुक्तं वस्त्रावृता हि नार्यः, तत्र वस्त्रं किं स्त्रीणां सहजातं ब्रह्मव्रतहेतुर्वा १, आद्यः पक्षः प्रत्यक्षवाधितः, नहि स्त्रीणां वस्त्रं त्वस्वत् सहजातं दृष्टं श्रुतं वा तथात्वेऽपि त्वगिव वस्त्रं परिग्रहो न भवेत्, द्वितीयपक्षे चारित्रस्यानुगुणम् - अनुकूलं वस्त्रं, न हि यद् | ब्रह्मत्रतहेतुस्तच्चारित्राभावहेतुः शीतोष्णस्पर्शयोरिव विरोधात्, तथा च सिद्धं चीवरधारणमेव चारित्रहेतुः, किंच-भो नग्नाट ! | अबलानामम्बरपरिभोगः किं तीर्थकृदुपदिष्ट उत तव मताकर्षक शिवभूतिना प्ररूपितः अशक्यपरित्यागकृतो वा १, आद्ये तावद्वस्त्रावृतानामेव मुक्तिः सिद्धा, यतः "प्रेक्षावतां हि प्रवृत्तिः स्वार्थकारुण्याभ्यां व्याप्ते" तिवचनात् परमप्रेक्षावश्वेन परमकारुण्यभाजो भगवन्तो नावलानां मुक्त्युपघातकमुपदिशन्ति, तथात्वे ह्यास्तां तावदन्यत्, लोकनिन्द्या अप्यर्हन्तो भवेयुः, द्वितीये तु स्त्रीमिः | शिवभूतेः किमपराद्धं १ येन पापात्मना वस्त्रदानेनाबलानां मुक्त्युपघातो विहितः, न ह्यान्तरवैरमन्तरेण कश्चित्तथाविधोत्कृष्टसंपद्विघातको भवेत्, अथ शिवभूतिनैव वस्त्रदानं स्त्रीणां ब्रह्मचर्यपालननिमित्तमेव विहितमिति चेद् आयातोऽसि खयमेव अस्मदुक्तमार्गेण, | यतो यद् ब्रह्मचर्यादिपालन हेतुस्तत्संयमं प्रति हेतुरेवेतिसिद्धं निष्परिग्रहताहेतुर्वस्त्रपात्रादिरिति, अशक्यपरित्यागकृत इति तृतीयोऽपि विकल्पः तुच्छः, प्रत्यक्षबाधात्, बाल्यावस्थायामिवान्यास्वप्यवस्थासु वस्त्रराहित्यस्य सार्वजनीनत्वात्, अथ कादाचित्कमेव वस्त्रसा|हित्यमुच्यते तर्हि पुरुषाणामपि गार्हस्थ्ये वस्त्रसाहित्यस्य सद्भावात् पुरुषाणामपि मुक्त्यभावप्रसक्तेः अथ कादाचित्कमपि प्रत्रज्याप्रतिपश्यनन्तरमेवोच्यते इति चेत् तर्हि अर्शोभगन्दरादिषु तद्वणमात्रोपयोगिनि वस्त्रे मूर्च्छाया अभावान्न दोष इति चेत् चिरं जीव, तर्हि शीतातपवातदंशमशकादिवाधितस्य शरीरस्य तच्चिकित्सामात्रोपयोगिनि वस्त्रे कुतो मूच्छेति विचार्य मोक्षसाधनस्य शरीरस्यो
अबलांबरपरिभोगः
1148 11