________________
ऊर्ध्वाधोगमनव्यमि
श्रीप्रवचनपरीक्षा २विश्रामे ॥ ८७॥
चार:
MinIANITARITIANITARAHANA IMAHA
मनशक्तिः, यदागमः-"उद्धंगामी रामा केसव सत्वे अहोगामी"ति (४१५) श्रीआ०नि०, एवमधोगमनशक्तिशून्या अपि स्त्रियो| वलदेववर्ध्वगतिगामिन्यो भवन्त्येव, ननु यद्यपि नाधोगतिगमनशक्त्युपेता बलदेवादयो भवन्ति तथापि ते पुरुषा एव भवन्ति, पुरुषत्वजात्या च बलदेवसमानजातीया इतरे पुरुषा अधोगतिशक्त्युपेताः, अतो बलदेवा अप्युपचारात्तत्सामर्थ्यभाज उपचर्यन्ते एवेतिचेद, उपचर्यतां नाम मनुजत्वजात्या स्त्रीसमानजातीया इतरे मनुजास्तथाशक्त्युपेता अतः स्त्रियोऽप्युपचारात्तथाशक्तिभाज| इति, युक्तेस्तौल्यात् , तस्मादलदेववत् स्त्रीणामपि मुक्तियुक्तिसिद्धा, सिद्धान्तसिद्धापि 'समणस्स भगवओ महावीरस्स चउद्दस अजिआसयाई सिद्धाई 'ति (पवु०) तथा “एगा सिद्धिं पत्ता मरुदेवी नाभिणो पत्ती"ति (आव०१६६) तथा मत्स्यानामधोगमने यावत्सप्सम्यामपि शक्तिः ऊध्वं तु सहस्रारदेवलोकादागेवेति मत्स्येष्वपि व्यभिचारः, एवमधोगमनशक्त्यभावेऽपि ऊर्ध्वगमनशक्तिभाजो जिनेन्द्रगणधरादिचरमशरीरिणो बोध्याः, तेषां तथास्वभावाद् , अतस्तेष्वपि व्यभिचारः स्फुट एव,अयं भावः-वासुदेवानामधोगमने शक्तिोंर्व मनागपि, बलदेवानामूचं, नाधो मनागपि, मत्स्यानामधो महती लधीयसी चोवं, स्त्रीणामृवं महती लघीयसी चाधोगतिरिति सम्यक् पर्यालोच्य नाधोगमनशक्तिरूर्ध्वगतिनियामिका,बलदेववासुदेवयोर्व्यभिचारात् इति गाथार्थः॥२३।। अथाधोगतो तुल्यसामर्थ्य सत्येवोर्ध्वगतौ तुल्यसामर्थ्यमिति दिगम्बरेणोपदर्शिता व्याप्तिः सर्वथा प्रशिथिलयितुमाहसरिसवासउणिचउप्पय सप्पित्थी'जलयराण सन्नीणं । बीआइनिरयगमणं कमेण उड्ढेतु समगमणं ॥२४॥ सरीसृपाः-भुजपरिसर्पाः शकुनयः-पक्षिणः चतुष्पदाः-सिंहादयः सर्पाः-उरःपरिसर्पाः स्त्रियः-स्त्रीरत्नादयः जलचरा-मत्स्यादयस्तेषां संजिनाम् , असंज्ञिनां तु रत्नप्रभायाः परत उत्पादासंभवात् , द्वितीयादिनरकगमनं क्रमेण भवति, यथा सरीसृपाः
R
IPATIANE