________________
श्रीप्रवचनपरीक्षा २विश्रामे ॥८४॥
HAmhud
सप्तम्यगमने हेतु:
| स्याच्छिन्नप्रवृत्तिहेतवस्तु गणधरादिसाधवः, तन्मातरः स्त्रिय एव भवन्ति, मातृणां च निजापत्येष्वकृत्रिमः स्नेहः स्यात् , तेन पित्राद्यपेक्षया मातरः स्वापत्यानि सातिस्नेहं परिपालयन्तीति जगतस्थितिः, अत एव श्रीऋषभजिने प्रबजिते पुत्रस्नेहे शोकाश्रुविमोचनात् क्षामलोचना मरुदेवी प्रत्यहं भरतं प्रति-हे भरत! मत्पुत्र ऋषभो निरशनो निर्वसनो निर्यानो वनवासी वने एकाक्येव परिभ्रमति, | त्वं तु राज्यसुखनिमग्नस्तद्वार्तामपि न करोषि,इत्याधुपालम्भपरायणा वर्षसहस्रं यावत् क्षणमात्रमपि स्वास्थ्यं न प्राप,न चैवं नाभिकुलकरोऽपि, आस्तां जन्ममाता, कुक्षिधरमात्रेणापि देवानन्दा ब्राह्मणी श्रीवीरवन्दनार्थमागता श्रीवीरं निरीक्ष्य निर्निमेषतया पश्यन्ती | रोम चिताऽतिस्नेहेन स्तन्यपयःश्रावणाकञ्चुकी संजज्ञे इति प्रवचने प्रतीतम् , एवं तीर्थकरमातृणां तजातीयानामन्यासामपि स्त्रीणां | तीर्थकरे तीर्थकरापत्येषु साधुषु तीर्थकरभाषिते च श्रुतचारित्रादिधर्मे तीवोरागो युज्यते, एतच्च संप्रति प्रत्यक्षमपि लक्ष्यते, कासांचित् स्त्रीणां पुरुषापेक्षयाऽधिकतरस्यापि धर्मरागस्योपलभ्यमानत्वात् , प्रत्य पिलापस्य केनापि कर्तुमशक्यत्वात , नचैवं संप्रत्युपलभ्यते | परं पूर्व नासीदिति शङ्कनीयं, तीर्थकरवारकेऽपि तथैवोपलम्भात् , तथाहि-छामस्थ्ये भगवता श्रीवीरेण द्रव्यतः कुल्माषाः क्षेत्रतो | देहल्या एकं पादमारत एकं पादं च परतः कृत्वा कालतो भिक्षाचरेषु निवृत्तेषु भावतो राजसुता दासत्वमापन्ना मुण्डितशिरोजाऽष्टमोपवासिका सूर्यकोणस्थितान् कुल्माषान् रुदती दास्यति तदा मम पारणकमिति घोराभिग्रहे कृते चतुषु मासेतु गतेषु कौशाम्भ्यां शतानीकराजस्य मृगावती नाम राज्ञी कदा भगवतः पारणकं भावीति भगवति तीव्ररागेण प्रत्यहं चिन्तापरा तथ्यवादिनं निमित्तझं पृष्टवती, न पुनः कोटिशः संख्येष्वपि श्रावकेषु विद्यमानेषु कोऽपि श्रावकः पृष्टवान् , तत्र कारणं किं रागोऽन्यद्वेति स्वयमेव विचारणीयं, तथा भिक्षामलात्वा चलमाने भगवति वीरे चन्दनबालैवारुदत्, न चैवं कोऽपि श्रायकः श्रूयते, तथा मङ्खलिपुत्रमुक्ततेजो
ilymeri
MINIBARSHANTINENalleriIINITION
॥
८
॥