SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ आज्ञाखंडनफलं श्रीप्रवचनपरीक्षा २विश्रामे ॥८१॥ MANIDHIRAINSPIRITAHARIHSHIRAHINISHITAL INSPIRISHIPit आकृतिमननुहरन् , आकारानुकारं परित्यजन्, अपिगम्यः, तीर्थकृदनुकारमकुर्वन्नपीत्यर्थः, गुरुशिष्यसंबन्धे आज्ञाया एव प्राधान्याद् , अयं भावः-यथा द्रव्यवैद्योपदेशेनैव प्रवर्तमानो रोगी नीरोगतां भजते तथा जिनाज्ञया प्रवर्त्तमानो हि तदनुकाररहितो मोक्षमाम ति, अन्यथा विपरीतो-वैपरीत्यं कुर्वन्नाज्ञामतिक्रम्य नटवत्तदनुकारं कुर्वमपि अनन्तसंतापम्-अनन्तकालं यावत् क्लेशं नरकादौ लभते,यतः-"रण्णो आणाभंगे इक्कुच्चिअहोइ निग्गहो लोए। सवण्णुआणभंगे अणंतसो निग्गहं लहइ ॥१॥” इति, अत एवास्तामन्यद् , जिनेन्द्राज्ञापराङ्मुखो जिनेन्द्रमेव महाविभूत्या पूजयन्नपि तिरस्करणीयः, यदुक्तम्-"आणाखंडणकारी जइवि तिकालं महाविभूईए । पूएइ वीअरायं सर्वपि नित्थयं तस्स ॥१॥"त्ति अत एव हे नग्नाट! तव च तीर्थकरशिष्यत्वात् तदाकारादिकं प्रमाणं | | तर्हि तदुपदेशोऽपि प्रमाणमास्तां, तथा कि नाग्यव्रतस्वीकारेणात्मानं विगोपयसि?, नहि नाण्यादिवतरूपं कष्टमेवात्मनां कर्मक्षयकारणं,किंतु जिनाझैव,यदुक्तं-"विशिष्टकष्टस्य कर्मक्षयं प्रत्यकारणत्वाजिनाज्ञाया एव कर्मक्षयं प्रति कारणत्वात् ," तस्माच्चतुर्दशोपकरणविशिष्टं तीर्थकदुपदिष्टमस्माकमप्यभीष्टं स्थविरकल्पिकमार्गमेव स्वीकुर्विति गाथार्थः।।१७॥ अथोपकरणाभावे दोषदिशं दर्शयन्नाहउवगरणाणमभावे न हुंति समिईउ संजमो कत्तो? । तयभावा उ नराणं तुब्भ मए नेव निवाणं ॥१८॥ वस्त्रपात्राद्युपकरणाभावे समितयः-ईर्याभाषेषणादानपारिष्ठापनिकालक्षणाः पश्च समितयो न भवन्ति, तदभावाच कुतः संयमः १, संयमाभावाच तव मते नराणां-पुरुषाणाम् , अपिगम्यः, स्त्रीणामिव पुरुषाणामपि निर्वाणं नैव संभवेदित्यक्षरार्थः, भावार्थस्तु संक्षेपेण त्वेवं-वस्त्राभावे शीतातपवातवारिप्रभृत्युपद्रवे तथाविधधृतिसंहननादिबलरहितः साधुद्रुतं२ गच्छन्नागच्छंश्च नेर्यासमितः स्यात् , | पात्राभावे च संसक्तसक्तुदध्यादिकं गलनादिभयात् त्वरितं२ गृहणानो भुञ्जानोऽप्यनेषणासमितः स्यात् , भाजनाभावे च केवलमृमौ
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy